Only Dharma. Since 1992
/ Vedanta / Upanishads (Sanskrit)

Dattatreya Upanishad

Sanskrit Devanagari with Roman transliteration (IAST)

 

॥ श्रीदत्तात्रेयोपनिषत् ॥

॥ śrīdattātreyopaniṣat ॥

दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् ।

dattātreyībrahmavidyāsaṃvedyānandavigraham ।

त्रिपान्नारायणाकरं दत्तात्रेयमुपास्महे ॥

tripānnārāyaṇākaraṃ dattātreyamupāsmahe ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं
पश्येमाक्षभिर्यजत्राः ।

oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ
paśyemākṣabhiryajatrāḥ ।

स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिर्व्यशेम
देवहितं यदायुः ॥

sthirairaṅgaistuṣṭuvām̐sastanūbhirvyaśema
devahitaṃ yadāyuḥ ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः ।

svasti na indro vṛddhaśravāḥ
svasti naḥ pūṣā viśvavedāḥ ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु ॥

svasti nastārkṣyo ariṣṭanemiḥ
svasti no bṛhaspatirdadhātu ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ ॥

hariḥ oṃ ॥

सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं
तारकं तन्नो ब्रूहि भगवन्नित्युक्तः सत्यानन्द
सात्त्विकं मामकं धामोपास्वेत्याह ।

satyakṣetre brahmā nārāyaṇaṃ mahāsāmrājyaṃ kiṃ
tārakaṃ tanno brūhi bhagavannityuktaḥ satyānanda
sāttvikaṃ māmakaṃ dhāmopāsvetyāha ।

सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते
संसारिणो भवन्ति नारायणेनैवं विवक्षितो ब्रह्मा
विश्वरूपधरं विष्णुं नारायणं दत्तात्रेअयं
ध्यात्वा सद्वदति ।

sadā datto'hamasmīti pratyetatsaṃvadanti yena te
saṃsāriṇo bhavanti nārāyaṇenaivaṃ vivakṣito brahmā
viśvarūpadharaṃ viṣṇuṃ nārāyaṇaṃ dattātreayaṃ
dhyātvā sadvadati ।

दमिति हंसः ।

damiti haṃsaḥ ।

दामिति दीर्घं तद्बीजं नाम बीजस्थम् ।

dāmiti dīrghaṃ tadbījaṃ nāma bījastham ।

दामित्येकाक्षरं भवति ।

dāmityekākṣaraṃ bhavati ।

तदेतत्तारकं भवति ।

tadetattārakaṃ bhavati ।

तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् ।

tadevopāsitavyaṃ vijñeyaṃ garbhāditāraṇam ।

गायत्री छन्दः ।

gāyatrī chandaḥ ।

सदाशिव ऋषिः ।

sadāśiva ṛṣiḥ ।

दत्तात्रेयो देवता ।

dattātreyo devatā ।

वटबीजस्थमिव दत्तबीजस्थं सर्वं जगत् ।

vaṭabījasthamiva dattabījasthaṃ sarvaṃ jagat ।

एतदैवाक्षरं व्याख्यातम् ।

etadaivākṣaraṃ vyākhyātam ।

दत्तात्रेयषडक्षरमन्त्रः

dattātreyaṣaḍakṣaramantraḥ

व्याख्यास्ये षडक्षरम् ।

vyākhyāsye ṣaḍakṣaram ।

ओमिति प्रथमम् ।

omiti prathamam ।

श्रीमिति द्वितीयम् ।

śrīmiti dvitīyam ।

ह्रीमिति तृतीयम् ।

hrīmiti tṛtīyam ।

क्लीमिति चतुर्थम् ।

klīmiti caturtham ।

ग्लौमिति पञ्चमम् ।

glaumiti pañcamam ।

द्रामिति षट्कम् ।

drāmiti ṣaṭkam ।

षडक्षरोऽयं भवति ।

ṣaḍakṣaro'yaṃ bhavati ।

सर्वसम्पद्वृद्धिकरी भवति ।

sarvasampadvṛddhikarī bhavati ।

योगानुभवो भवति ।

yogānubhavo bhavati ।

गायत्री छन्दः ।

gāyatrī chandaḥ ।

सदाशिव ऋषिः ।

sadāśiva ṛṣiḥ ।

दत्तात्रेयो देवता ।

dattātreyo devatā ।

ॐ श्रीं ह्रीं क्लीं ग्लौं द्रां
इति षडक्षरोऽयं भवति ।

oṃ śrīṃ hrīṃ klīṃ glauṃ drāṃ
iti ṣaḍakṣaro'yaṃ bhavati ।

द्रमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रेयाय नम
इत्यष्टाक्षरः ।

dramityuktvā drāmityuktvā vā dattātreyāya nama
ityaṣṭākṣaraḥ ।

दत्तात्रेयायेति सत्यानन्दचिदात्मकम् ।

dattātreyāyeti satyānandacidātmakam ।

नम इति पूर्णानन्दकविग्रहम् ।

nama iti pūrṇānandakavigraham ।

गायत्री छन्दः ।

gāyatrī chandaḥ ।

सदाशिव ऋषिः ।

sadāśiva ṛṣiḥ ।

दत्तात्रेयो देवता ।

dattātreyo devatā ।

दत्तात्रेयायेति कीलकम् ।

dattātreyāyeti kīlakam ।

तदेव बीजम् ।

tadeva bījam ।

नमः शक्तिर्भवति ।

namaḥ śaktirbhavati ।

ओमिति प्रथमम् ।

omiti prathamam ।

आमिति द्वितीयम् ।

āmiti dvitīyam ।

ह्रीमिति तृतीयम् ।

hrīmiti tṛtīyam ।

क्रोमिति चतुर्थम् ।

kromiti caturtham ।

एहीति तदेव वदेत् ।

ehīti tadeva vadet ।

दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः ।

dattātreyeti svāheti mantrarājo'yaṃ dvādaśākṣaraḥ ।

जगती छन्दः ।

jagatī chandaḥ ।

सदाशिव ऋषिः ।

sadāśiva ṛṣiḥ ।

दत्तात्रेयो देवता ।

dattātreyo devatā ।

ओमिति बीजम् ।

omiti bījam ।

स्वाहेति शक्तिः ।

svāheti śaktiḥ ।

सम्बुद्धिरिति कीलकम् ।

sambuddhiriti kīlakam ।

द्रमिति हृदये ।

dramiti hṛdaye ।

ह्रीं क्लीमिति शीर्षे ।

hrīṃ klīmiti śīrṣe ।

एहीति शिखायाम् ।

ehīti śikhāyām ।

दत्तेति कवचे ।

datteti kavace ।

आत्रेयेति चक्षुषि ।

ātreyeti cakṣuṣi ।

स्वाहेत्यस्त्रे ।

svāhetyastre ।

तन्मयो भवति ।

tanmayo bhavati ।

य एवं वेद ।

ya evaṃ veda ।

षोडशाक्षरं व्याख्यास्ये ।

ṣoḍaśākṣaraṃ vyākhyāsye ।

प्राणं देयम् ।

prāṇaṃ deyam ।

मानं देयम् ।

mānaṃ deyam ।

चक्षुर्देयम् ।

cakṣurdeyam ।

श्रोत्रं देयम् ।

śrotraṃ deyam ।

षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रे न
देयो भवति ।

ṣaḍdaśaśiraśchinatti ṣoḍaśākṣaramantre na
deyo bhavati ।

अतिसेवापरभक्तगुणवच्छिष्याय वदेत् ।

atisevāparabhaktaguṇavacchiṣyāya vadet ।

ओमिति प्रथमं भवति ।

omiti prathamaṃ bhavati ।

ऐमिति द्वितीयम् ।

aimiti dvitīyam ।

क्रोमिति तृतीयम् ।

kromiti tṛtīyam ।

क्लीमिति चतुर्थम् ।

klīmiti caturtham ।

क्लूमिति पञ्चमम् ।

klūmiti pañcamam ।

ह्रामिति षष्ठम् ।

hrāmiti ṣaṣṭham ।

ह्रीमिति सप्तमम् ।

hrīmiti saptamam ।

ह्रूमित्यष्टमम् ।

hrūmityaṣṭamam ।

सौरिति नवमम् ।

sauriti navamam ।

दत्तात्रेयायेति चतुर्दशम् ।

dattātreyāyeti caturdaśam ।

स्वाहेति षोडशम् ।

svāheti ṣoḍaśam ।

गायत्री छन्दः ।

gāyatrī chandaḥ ।

सदाशिव ऋषिः ।

sadāśiva ṛṣiḥ ।

दत्तात्रेयो देवता ।

dattātreyo devatā ।

ॐ बीजम् ।

oṃ bījam ।

स्वाहा शक्तिः ।

svāhā śaktiḥ ।

चतुर्थ्यन्तं कीलकम् ।

caturthyantaṃ kīlakam ।

ओमिति हृदये ।

omiti hṛdaye ।

क्लां क्लीं क्लूमिति शिखायाम् ।

klāṃ klīṃ klūmiti śikhāyām ।

सौरिति कवचे ।

sauriti kavace ।

चतुर्थ्यन्तं चक्षुषि ।

caturthyantaṃ cakṣuṣi ।

स्वाहेत्यस्त्रे ।

svāhetyastre ।

यो नित्यमधीयानः सच्चिदानन्द सुखी मोक्षी भवति ।

yo nityamadhīyānaḥ saccidānanda sukhī mokṣī bhavati ।

सौरित्यन्ते श्रीवैष्णव इत्युच्यते ।

saurityante śrīvaiṣṇava ityucyate ।

तज्जापी विष्णुरूपी भवति ।

tajjāpī viṣṇurūpī bhavati ।

अनुष्टुप् छन्दो व्याख्यास्ये ।

anuṣṭup chando vyākhyāsye ।

सर्वत्र सम्बुद्धिरिमानीत्युच्यन्ते ।

sarvatra sambuddhirimānītyucyante ।

दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक ।

dattātreya hare kṛṣṇa unmattānandadāyaka ।

दिगम्बर मुने बालपिशाच ज्ञानसागर ॥ १॥

digambara mune bālapiśāca jñānasāgara ॥ 1॥

इत्युपनिषत् ।

ityupaniṣat ।

अनुष्टुप् छन्दः ।

anuṣṭup chandaḥ ।

सदाशिव ऋषिः ।

sadāśiva ṛṣiḥ ।

दत्तात्रेयो देवता दत्तात्रेयेति हृदये ।

dattātreyo devatā dattātreyeti hṛdaye ।

हरे कृष्णेति शीर्षे ।

hare kṛṣṇeti śīrṣe ।

उन्मत्तानन्देति शिखायाम् ।

unmattānandeti śikhāyām ।

दायकमुन इति कवचे ।

dāyakamuna iti kavace ।

दिगम्बरेति चक्षुषि ।

digambareti cakṣuṣi ।

पिशाचज्ञानसागरेत्यस्त्रे ।

piśācajñānasāgaretyastre ।

आनुष्टुभोऽयं मयाधीतः ।

ānuṣṭubho'yaṃ mayādhītaḥ ।

अब्रह्मजन्मदोषाश्च प्रणश्यन्ति ।

abrahmajanmadoṣāśca praṇaśyanti ।

सर्वोपकारी मोक्षी भवति ।

sarvopakārī mokṣī bhavati ।

य एवं वेदेत्युपनिषत् ॥ १॥

ya evaṃ vedetyupaniṣat ॥ 1॥

इति प्रथमः खण्डः ॥ १॥

iti prathamaḥ khaṇḍaḥ ॥ 1॥

ओमिति व्याहरेत् ।

omiti vyāharet ।

ॐ नमो भगवते दत्तात्रेयाय
स्मरणमात्रसन्तुष्टाय महाभयनिवारणाय
महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्त-
पिशाचवेषायेति महायोगिनेऽवधूतायेति
अनसूयानन्दवर्धनायात्रिपुत्रायेति सर्वकामफल-
प्रदाय ओमिति व्याहरेत् ।

oṃ namo bhagavate dattātreyāya
smaraṇamātrasantuṣṭāya mahābhayanivāraṇāya
mahājñānapradāya cidānandātmane bālonmatta-
piśācaveṣāyeti mahāyogine'vadhūtāyeti
anasūyānandavardhanāyātriputrāyeti sarvakāmaphala-
pradāya omiti vyāharet ।

भवबन्धमोचनायेति ह्रीमिति व्याहरेत् ।

bhavabandhamocanāyeti hrīmiti vyāharet ।

सकलविभूति दायेति क्रोमिति व्याहरेत् ।

sakalavibhūti dāyeti kromiti vyāharet ।

साध्याकर्षणायेति सौरिति व्याहरेत् ।

sādhyākarṣaṇāyeti sauriti vyāharet ।

सर्वमनः-क्षोभणायेति श्रीमिति व्याहरेत् ।

sarvamanaḥ-kṣobhaṇāyeti śrīmiti vyāharet ।

महोमिति व्याहरेत् ।

mahomiti vyāharet ।

चिरञ्जीविने वषडिति व्याहरेत् ।

cirañjīvine vaṣaḍiti vyāharet ।

वशीकुरुवशीकुरु वौषडिति व्याहरेत् ।

vaśīkuruvaśīkuru vauṣaḍiti vyāharet ।

आकर्षयाकर्षय हुमिति व्याहरेत् ।

ākarṣayākarṣaya humiti vyāharet ।

विद्वेषयविद्वेषय फडिति व्याहरेत् ।

vidveṣayavidveṣaya phaḍiti vyāharet ।

उच्चाटयोच्चाटय ठठेति व्याहरेत् ।

uccāṭayoccāṭaya ṭhaṭheti vyāharet ।

स्तम्भय-स्तम्भय खखेति व्याहरेत् ।

stambhaya-stambhaya khakheti vyāharet ।

मारयमारय नमः सम्पन्नाय नमः सम्पन्नाय स्वाहा
पोषयपोषय
परमन्त्रपरयन्त्रपरतन्त्रांश्छिन्धिच्छिन्धि
ग्रहान्निवारयनिवारय व्याधीन्निवारयनिवारय दुःखं
हरयहरय दारिद्र्यं विद्रावयविद्रावय देहं
पोषयपोषय चित्तं तोषयतोषयेति सर्वमन्त्र-
सर्वयन्त्रसर्वतन्त्रसर्वपल्लवस्वरूपायेति
ॐ नमः शिवायेत्युपनिषत् ॥ २॥

mārayamāraya namaḥ sampannāya namaḥ sampannāya svāhā
poṣayapoṣaya
paramantraparayantraparatantrāṃśchindhicchindhi
grahānnivārayanivāraya vyādhīnnivārayanivāraya duḥkhaṃ
harayaharaya dāridryaṃ vidrāvayavidrāvaya dehaṃ
poṣayapoṣaya cittaṃ toṣayatoṣayeti sarvamantra-
sarvayantrasarvatantrasarvapallavasvarūpāyeti
oṃ namaḥ śivāyetyupaniṣat ॥ 2॥

इति द्वितीयः खण्डः ॥ २॥

iti dvitīyaḥ khaṇḍaḥ ॥ 2॥

य एवं वेद ।

ya evaṃ veda ।

अनुष्टुप् छन्दः ।

anuṣṭup chandaḥ ।

सदाशिव ऋषिः ।

sadāśiva ṛṣiḥ ।

दत्तात्रेयो देवता ।

dattātreyo devatā ।

ओमिति बीजम् ।

omiti bījam ।

स्वाहेति शक्तिः ।

svāheti śaktiḥ ।

द्रामिति कीलकम् ।

drāmiti kīlakam ।

अष्टमूर्त्यष्टमन्त्रा भवन्ति ।

aṣṭamūrtyaṣṭamantrā bhavanti ।

यो नित्यमधीते वाय्वग्निसोमादित्यब्रह्मविष्णुरुद्रैः
पूतो भवति ।

yo nityamadhīte vāyvagnisomādityabrahmaviṣṇurudraiḥ
pūto bhavati ।

गायत्र्या शतसहस्रं जप्तं भवति ।

gāyatryā śatasahasraṃ japtaṃ bhavati ।

महारुद्रशतसहस्रजापी भवति ।

mahārudraśatasahasrajāpī bhavati ।

प्रणवायुतकोटिजप्तो भवति ।

praṇavāyutakoṭijapto bhavati ।

शतपूर्वाञ्छतापरान्पुनाति ।

śatapūrvāñchatāparānpunāti ।

स पङ्क्तिपावनो भवति ।

sa paṅktipāvano bhavati ।

ब्रह्महत्यादिपातकैर्मुक्तो भवति ।

brahmahatyādipātakairmukto bhavati ।

गोहत्यादिपातकैर्मुक्तो भवति ।

gohatyādipātakairmukto bhavati ।

तुलापुरुषादिदानैः प्रपापानतः पूतो भवति ।

tulāpuruṣādidānaiḥ prapāpānataḥ pūto bhavati ।

अशेषपापान्मुक्तो भवति ।

aśeṣapāpānmukto bhavati ।

भक्ष्याभक्ष्यपापैर्मुक्तो भवति ।

bhakṣyābhakṣyapāpairmukto bhavati ।

सर्वमन्त्रयोगपारीणो भवति ।

sarvamantrayogapārīṇo bhavati ।

स एव ब्राह्मणो भवति ।

sa eva brāhmaṇo bhavati ।

तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् ।

tasmācchiṣyaṃ bhaktaṃ pratigṛhṇīyāt ।

सोऽनन्तफलमश्नुते ।

so'nantaphalamaśnute ।

स जीवन्मुक्तो भवतीत्याह भगवान्नारायणो
ब्रह्माणमित्युपनिषत् ॥

sa jīvanmukto bhavatītyāha bhagavānnārāyaṇo
brahmāṇamityupaniṣat ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं
पश्येमाक्षभिर्यजत्राः ॥

oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ
paśyemākṣabhiryajatrāḥ ॥

स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिर्व्यशेम
देवहितं यदायुः ॥

sthirairaṅgaistuṣṭuvām̐sastanūbhirvyaśema
devahitaṃ yadāyuḥ ॥

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः ।

oṃ svasti na indro vṛddhaśravāḥ
svasti naḥ pūṣā viśvavedāḥ ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु ॥

svasti nastārkṣyo ariṣṭanemiḥ
svasti no bṛhaspatirdadhātu ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ तत्सत् ॥

hariḥ oṃ tatsat ॥

इति दत्तात्रेयोपनिषत्समाप्ता ॥

iti dattātreyopaniṣatsamāptā ॥


© 1991-2026 Titi Tudorancea Yoga Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
Contact