Only Dharma. Since 1992
/ Vedanta / Upanishads (Sanskrit)

Pranagnihotra Upanishad

Sanskrit Devanagari with Roman transliteration (IAST)

 

॥ प्राणाग्निहोत्रोपनिषत् ॥

॥ prāṇāgnihotropaniṣat ॥

शरीरयज्ञसंशुद्धचित्तसंजातबोधतः ।

śarīrayajñasaṃśuddhacittasaṃjātabodhataḥ ।

मुनयो यत्पदं यान्ति तद्रामपदमाश्रये ॥

munayo yatpadaṃ yānti tadrāmapadamāśraye ॥

ॐ सह नाववतु ॥

oṃ saha nāvavatu ॥

सह नौ भुनक्तु ॥

saha nau bhunaktu ॥

सह वीर्यं करवावहै ॥

saha vīryaṃ karavāvahai ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

tejasvināvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ ॥

hariḥ oṃ ॥

अथातः सर्वोपनिषत्सारं संसारज्ञानातीत-
मन्त्रसूक्तं शारीरयज्ञं व्याख्यास्यामः ।

athātaḥ sarvopaniṣatsāraṃ saṃsārajñānātīta-
mantrasūktaṃ śārīrayajñaṃ vyākhyāsyāmaḥ ।

यस्मिन्नेव पुरुषः शरीरे विनाप्यग्निहोत्रेण विनापि
सांख्ययोगेन संसारविमुक्तिर्भवतीति ।

yasminneva puruṣaḥ śarīre vināpyagnihotreṇa vināpi
sāṃkhyayogena saṃsāravimuktirbhavatīti ।

स्वेन विधिनान्नं भूमौ निक्षिप्य
या ओषधीः सोमराज्ञीरिति तिसृभिरन्नपत
इति द्वाभ्या-मनुमन्त्रयते ।

svena vidhinānnaṃ bhūmau nikṣipya
yā oṣadhīḥ somarājñīriti tisṛbhirannapata
iti dvābhyā-manumantrayate ।

या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।

yā oṣadhayaḥ somarājñīrbahvīḥ śatavicakṣaṇāḥ ।

बृहस्पतिप्रसूतास्ता नो मुञ्चत्वंहसः ॥ १॥

bṛhaspatiprasūtāstā no muñcatvaṃhasaḥ ॥ 1॥

याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।

yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ ।

बृहस्पतिप्रसूतास्ता नो मुञ्चत्वंहसः ॥ २॥

bṛhaspatiprasūtāstā no muñcatvaṃhasaḥ ॥ 2॥

जीवला नघारिषां माते बध्नामोषधिम् ।

jīvalā naghāriṣāṃ māte badhnāmoṣadhim ।

यातयायु रुपाहरादप रक्षांसि चातयात् ॥ ३॥

yātayāyu rupāharādapa rakṣāṃsi cātayāt ॥ 3॥

अन्नपतेऽन्नस्य नो धेह्यनमीवस्य शुष्मिणः ।

annapate'nnasya no dhehyanamīvasya śuṣmiṇaḥ ।

प्रप्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥ ४॥

prapradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade ॥ 4॥

यदन्नमग्निर्बहुधा विराद्धि
रुद्रैः प्रजग्धं यदि वा पिशाचैः ।

yadannamagnirbahudhā virāddhi
rudraiḥ prajagdhaṃ yadi vā piśācaiḥ ।

सर्वं तदीशानो अभयं कृणोतु
शिवमीशानाय स्वाहा ॥ ५॥

sarvaṃ tadīśāno abhayaṃ kṛṇotu
śivamīśānāya svāhā ॥ 5॥

अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।

antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ ।

त्वं यज्ञस्त्वं ब्रह्मा त्वं रुद्रस्तवं विष्णुस्त्वं वषट्कार
आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोंनमः ।

tvaṃ yajñastvaṃ brahmā tvaṃ rudrastavaṃ viṣṇustvaṃ vaṣaṭkāra
āpo jyotī raso'mṛtaṃ brahma bhūrbhuvaḥ suvaroṃnamaḥ ।

आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् ।

āpaḥ punantu pṛthivīṃ pṛthivī pūtā punātu mām ।

पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् ।

punantu brahmaṇaspatirbrahmapūtā punātu mām ।

यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम ।

yaducchiṣṭamabhojyaṃ yadvā duścaritaṃ mama ।

सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा ।

sarvaṃ punantu māmāpo'satāṃ ca pratigrahaṃ svāhā ।

अमृतमस्य मृतोपस्तरणमस्यमृतं प्राणे जुहोम्यमाशिष्यान्तोऽसि ।

amṛtamasya mṛtopastaraṇamasyamṛtaṃ prāṇe juhomyamāśiṣyānto'si ।

प्राणाय स्वाहा ।

prāṇāya svāhā ।

अपानाय स्वाहा ।

apānāya svāhā ।

व्यानाय स्वाहा ।

vyānāya svāhā ।

उदानाय स्वाहा ।

udānāya svāhā ।

समानाय स्वाहा ।

samānāya svāhā ।

इति कनिष्ठिकाङ्गुल्याङ्गुष्ठेन च प्राणे जुहोति ।

iti kaniṣṭhikāṅgulyāṅguṣṭhena ca prāṇe juhoti ।

अनामिकयापाने ।

anāmikayāpāne ।

मध्यमया व्याने ।

madhyamayā vyāne ।

सर्वाभिरुदाने ।

sarvābhirudāne ।

प्रदेशिन्या समाने ।

pradeśinyā samāne ।

तूष्णीमेकामेकऋषौ जुहोति ।

tūṣṇīmekāmekaṛṣau juhoti ।

द्वे आहवनीये ।

dve āhavanīye ।

एकां दक्षिणाग्नौ ।

ekāṃ dakṣiṇāgnau ।

एकां गार्हपत्ये ।

ekāṃ gārhapatye ।

एकां सर्वप्रायश्चित्तीये ॥

ekāṃ sarvaprāyaścittīye ॥

अथापिधानमस्यमृतत्वायोपस्पृश्य पुनरादाय पुनरुपस्पृशेत् ।

athāpidhānamasyamṛtatvāyopaspṛśya punarādāya punarupaspṛśet ।

स ते प्राणा वाऽऽपो गृहीत्वा हृदयमन्वालभ्य जपेत् ।

sa te prāṇā vā''po gṛhītvā hṛdayamanvālabhya japet ।

प्राणो अग्निः परमात्मा पञ्चवायुभिरावृतः ।

prāṇo agniḥ paramātmā pañcavāyubhirāvṛtaḥ ।

अभयं सर्वभूतेभ्यो न मे भीतिः कदाचन ॥ १॥

abhayaṃ sarvabhūtebhyo na me bhītiḥ kadācana ॥ 1॥

इति प्रथमः खण्डः ॥ १॥

iti prathamaḥ khaṇḍaḥ ॥ 1॥

विश्वोऽसि वैश्वानरो विश्वरूपं त्वया धार्यते
जायमानम् ।

viśvo'si vaiśvānaro viśvarūpaṃ tvayā dhāryate
jāyamānam ।

विश्वं त्वाहुतथः सर्वा यत्र ब्रह्माऽमृतोऽसि ।

viśvaṃ tvāhutathaḥ sarvā yatra brahmā'mṛto'si ।

महानवोऽयं पुरुषो योऽङ्गुष्ठाग्रे प्रतिष्ठितः ।

mahānavo'yaṃ puruṣo yo'ṅguṣṭhāgre pratiṣṭhitaḥ ।

तमद्भिः परिषिञ्चामि सोऽस्यान्ते अमृताय च ।

tamadbhiḥ pariṣiñcāmi so'syānte amṛtāya ca ।

अनावित्येष बाह्यात्मा ध्यायेताग्निहोत्रं जोहोमीति ।

anāvityeṣa bāhyātmā dhyāyetāgnihotraṃ johomīti ।

सर्वेषामेव सूनुर्भवति ।

sarveṣāmeva sūnurbhavati ।

अस्य यज्ञपरिवृता आहुतीर्होमयति ।

asya yajñaparivṛtā āhutīrhomayati ।

स्वशरीरे यज्ञं परिवर्तयामीति ।

svaśarīre yajñaṃ parivartayāmīti ।

चत्वारोऽग्नयस्ते किंभागधेयाः ।

catvāro'gnayaste kiṃbhāgadheyāḥ ।

तत्रसूर्योऽग्निर्नाम सूर्यमण्डलाकृतिः सहस्ररश्मि-
परिवृत एकऋषिर्भूत्वा मूर्धनि तिष्ठति ।

tatrasūryo'gnirnāma sūryamaṇḍalākṛtiḥ sahasraraśmi-
parivṛta ekaṛṣirbhūtvā mūrdhani tiṣṭhati ।

यस्मादुक्तो दर्शनाग्निर्नाम चतुराकृतिराहवनीयो
भूत्वा मुखे तिष्ठति ।

yasmādukto darśanāgnirnāma caturākṛtirāhavanīyo
bhūtvā mukhe tiṣṭhati ।

शारीरोग्निर्नाम जराप्रणुदा हविरवस्कन्दति ।

śārīrognirnāma jarāpraṇudā haviravaskandati ।

अर्धचन्द्राकृति-र्दक्षिणाग्निर्भूत्वा हृदये
तिष्ठति तत्र कोष्ठाग्निरिति ।

ardhacandrākṛti-rdakṣiṇāgnirbhūtvā hṛdaye
tiṣṭhati tatra koṣṭhāgniriti ।

कोष्ठाग्निर्नामाशितपीतलीढखादितानि सम्यग्व्यष्ट्यां
श्रपयित्वा गार्हपत्यो भूत्वा नाभ्यां तिष्ठति ।

koṣṭhāgnirnāmāśitapītalīḍhakhāditāni samyagvyaṣṭyāṃ
śrapayitvā gārhapatyo bhūtvā nābhyāṃ tiṣṭhati ।

प्रायश्चित्तयस्त्वधस्तात्तिर्यक् तिस्रो हिमांशुप्रभाभिः
प्रजननकर्मा ॥

prāyaścittayastvadhastāttiryak tisro himāṃśuprabhābhiḥ
prajananakarmā ॥

इति द्वितीयः खण्डः ॥ २॥

iti dvitīyaḥ khaṇḍaḥ ॥ 2॥

अस्य शरीरयज्ञस्य यूपरशनाशोभितस्य
को यजमानः ।

asya śarīrayajñasya yūparaśanāśobhitasya
ko yajamānaḥ ।

का पत्नी ।

kā patnī ।

के ऋत्विजः ।

ke ṛtvijaḥ ।

के सदस्याः ।

ke sadasyāḥ ।

कानि यज्ञपात्राणि ।

kāni yajñapātrāṇi ।

कानि हवींषि ।

kāni havīṃṣi ।

का वेदिः ।

kā vediḥ ।

कोत्तरवेदिः ।

kottaravediḥ ।

को द्रोणकलशः ।

ko droṇakalaśaḥ ।

को रथः ।

ko rathaḥ ।

कः पशुः ।

kaḥ paśuḥ ।

कोऽध्वर्युः ।

ko'dhvaryuḥ ।

को होता ।

ko hotā ।

को ब्राह्मणाच्छंसी ।

ko brāhmaṇācchaṃsī ।

कः प्रतिप्रस्थाता ।

kaḥ pratiprasthātā ।

कः प्रस्तोता ।

kaḥ prastotā ।

को मैत्रावरुणः ।

ko maitrāvaruṇaḥ ।

क उद्गाता ।

ka udgātā ।

का धारापोता ।

kā dhārāpotā ।

के दर्भाः ।

ke darbhāḥ ।

कः स्रुवः ।

kaḥ sruvaḥ ।

काज्यस्थाली ।

kājyasthālī ।

कावाघारौ ।

kāvāghārau ।

कावाज्यभागौ ।

kāvājyabhāgau ।

केऽत्र याजाः ।

ke'tra yājāḥ ।

के अनुयाजाः ।

ke anuyājāḥ ।

केडा ।

keḍā ।

कः सूक्तवाकः ।

kaḥ sūktavākaḥ ।

कः शंयोर्वाकः ।

kaḥ śaṃyorvākaḥ ।

का हिंसा ।

kā hiṃsā ।

के पत्नीसंयाजाः ।

ke patnīsaṃyājāḥ ।

को यूपः ।

ko yūpaḥ ।

का रशना ।

kā raśanā ।

का इष्टयः ।

kā iṣṭayaḥ ।

का दक्षिणा ।

kā dakṣiṇā ।

किमवभृतमिति ॥

kimavabhṛtamiti ॥

इति तृतीयः खण्डः ॥ ३॥

iti tṛtīyaḥ khaṇḍaḥ ॥ 3॥

अस्य शारीरयज्ञस्य यूपरशनाशोभितस्यात्मा यजमानः ।

asya śārīrayajñasya yūparaśanāśobhitasyātmā yajamānaḥ ।

बुद्धिः पत्नी ।

buddhiḥ patnī ।

वेदा महर्त्विजः ।

vedā mahartvijaḥ ।

अहङ्कारोऽध्वर्युः ।

ahaṅkāro'dhvaryuḥ ।

चित्तं होता ।

cittaṃ hotā ।

प्राणो ब्राह्मणच्छंसी ।

prāṇo brāhmaṇacchaṃsī ।

अपानः प्रतिप्रस्थाता ।

apānaḥ pratiprasthātā ।

व्यानः प्रस्तोता ।

vyānaḥ prastotā ।

उदान उद्गाता ।

udāna udgātā ।

समानो मैत्रवरुणः ।

samāno maitravaruṇaḥ ।

शरीरं वेदिः ।

śarīraṃ vediḥ ।

नासिकोत्तरवेदिः ।

nāsikottaravediḥ ।

मूर्धा द्रोणकलशः ।

mūrdhā droṇakalaśaḥ ।

पादो रथः ।

pādo rathaḥ ।

दक्षिणहस्तः स्रुवः ।

dakṣiṇahastaḥ sruvaḥ ।

सव्यहस्त आज्यस्थाली ।

savyahasta ājyasthālī ।

श्रोत्रे आघारौ ।

śrotre āghārau ।

चक्षुषी आज्यभागौ ।

cakṣuṣī ājyabhāgau ।

ग्रीवा धारापोता ।

grīvā dhārāpotā ।

तन्मात्राणि सदस्याः ।

tanmātrāṇi sadasyāḥ ।

महाभूतानि प्रयाजाः ।

mahābhūtāni prayājāḥ ।

भूतानि गुणा अनुयाजाः ।

bhūtāni guṇā anuyājāḥ ।

जिह्वेडा ।

jihveḍā ।

दन्तोष्ठौ सूक्तवाकः ।

dantoṣṭhau sūktavākaḥ ।

तालुः शंयोर्वाकः ।

tāluḥ śaṃyorvākaḥ ।

स्मृतिर्दया क्षान्तिरहिंसा पत्नीसंयाजाः ।

smṛtirdayā kṣāntirahiṃsā patnīsaṃyājāḥ ।

ओङ्कारो यूपः ।

oṅkāro yūpaḥ ।

आशा रशना ।

āśā raśanā ।

मनो रथः ।

mano rathaḥ ।

कामः पशुः ।

kāmaḥ paśuḥ ।

केशा दर्भाः ।

keśā darbhāḥ ।

बुद्धीन्द्रियाणि यज्ञपात्राणि ।

buddhīndriyāṇi yajñapātrāṇi ।

कर्मेन्द्रियाणि हवींषि ।

karmendriyāṇi havīṃṣi ।

अहिंसा इष्टयः ।

ahiṃsā iṣṭayaḥ ।

त्यागो दक्षिणा ।

tyāgo dakṣiṇā ।

अवभृतं मरणात् ।

avabhṛtaṃ maraṇāt ।

सर्वा ह्यस्मिन्देवताः शरीरेऽधिसमाहिताः ।

sarvā hyasmindevatāḥ śarīre'dhisamāhitāḥ ।

वाराणस्यां मृतो वापि इदं वा ब्रह्म यः पठेत् ।

vārāṇasyāṃ mṛto vāpi idaṃ vā brahma yaḥ paṭhet ।

एकेन जन्मना जन्तुर्मोक्षं च प्राप्नुयादिति मोक्षं
च प्राप्नुयादित्युपनिषत् ॥ ४॥

ekena janmanā janturmokṣaṃ ca prāpnuyāditi mokṣaṃ
ca prāpnuyādityupaniṣat ॥ 4॥

ॐ सह नाववतु ॥

oṃ saha nāvavatu ॥

सह नौ भुनक्तु ॥

saha nau bhunaktu ॥

सह वीर्यं करवावहै ॥

saha vīryaṃ karavāvahai ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

tejasvināvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ तत्सत् ॥

hariḥ oṃ tatsat ॥

इति प्राणाग्निहोत्रोपनिषत्समाप्ता ॥

iti prāṇāgnihotropaniṣatsamāptā ॥


© 1991-2026 Titi Tudorancea Yoga Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
Contact