Only Dharma. Since 1992
/ Vedanta / Upanishads (Sanskrit)

Rudraakshajabala Upanishad

Sanskrit Devanagari with Roman transliteration (IAST)

 

॥ रुद्राक्षजाबालोपनिषत् ॥

॥ rudrākṣajābālopaniṣat ॥

रुद्राक्षोपनिषद्वेद्यं महारुद्रतयोज्ज्वलम् ।
प्रतियोगिविनिर्मुक्तशिवमात्रपदं भजे ॥

rudrākṣopaniṣadvedyaṃ mahārudratayojjvalam ।
pratiyogivinirmuktaśivamātrapadaṃ bhaje ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च ॥

oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
śrotramatho balamindriyāṇi ca ॥

सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-
स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि
सन्तु ते मयि सन्तु ॥

sarvāṇi sarvaṃ brahmopaniṣadaṃ
māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇama-
stvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi
santu te mayi santu ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ ॥

hariḥ oṃ ॥

अथ हैनं कालाग्निरुद्रं भुसुण्डः
पप्रच्छ कथं रुद्राक्षोत्पत्तिः ।

atha hainaṃ kālāgnirudraṃ bhusuṇḍaḥ
papraccha kathaṃ rudrākṣotpattiḥ ।

तद्धारणात्किं फलमिति ।

taddhāraṇātkiṃ phalamiti ।

तं होवाच भगवान्कालाग्निरुद्रः ।

taṃ hovāca bhagavānkālāgnirudraḥ ।

त्रिपुरवधार्थमहं निमीलिताक्षोऽभवम् ।

tripuravadhārthamahaṃ nimīlitākṣo'bhavam ।

तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्षा जाताः ।

tebhyo jalabindavo bhūmau patitāste rudrākṣā jātāḥ ।

सर्वानुग्रहार्थाय तेषां नामोच्चारणमात्रेण
दशगोप्रदानफलं दर्शनस्पर्शनाभ्यां द्विगुणं
फलमत ऊर्ध्वं वक्तुं न शक्नोमि ।

sarvānugrahārthāya teṣāṃ nāmoccāraṇamātreṇa
daśagopradānaphalaṃ darśanasparśanābhyāṃ dviguṇaṃ
phalamata ūrdhvaṃ vaktuṃ na śaknomi ।

तत्रैते श्लोका भवन्ति ।
कस्मिंस्थितं तु किं नाम कथं वा धार्यते नरैः ।
कतिभेदमुखान्यत्र कैर्मन्त्रैर्धार्यते कथम् ॥ १॥

tatraite ślokā bhavanti ।
kasmiṃsthitaṃ tu kiṃ nāma kathaṃ vā dhāryate naraiḥ ।
katibhedamukhānyatra kairmantrairdhāryate katham ॥ 1॥

दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया ।
भूमावक्षिपुटाभ्यां तु पतिता जलबिन्दवः ॥ २॥

divyavarṣasahasrāṇi cakṣurunmīlitaṃ mayā ।
bhūmāvakṣipuṭābhyāṃ tu patitā jalabindavaḥ ॥ 2॥

तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः ।
स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ॥ ३॥

tatrāśrubindavo jātā mahārudrākṣavṛkṣakāḥ ।
sthāvaratvamanuprāpya bhaktānugrahakāraṇāt ॥ 3॥

भक्तानां धारणात्पापं दिवारात्रिकृतं हरेत् ।
लक्षं तु दर्शनात्पुण्यं कोटिस्तद्धारणाद्भवेत् ॥ ४॥

bhaktānāṃ dhāraṇātpāpaṃ divārātrikṛtaṃ haret ।
lakṣaṃ tu darśanātpuṇyaṃ koṭistaddhāraṇādbhavet ॥ 4॥

तस्य कोटिशतं पुण्यं लभते धारणान्नरः ।
लक्षकोटिसहस्राणि लक्षकोटिशतानि च ॥ ५॥

tasya koṭiśataṃ puṇyaṃ labhate dhāraṇānnaraḥ ।
lakṣakoṭisahasrāṇi lakṣakoṭiśatāni ca ॥ 5॥

तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् ।
धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥ ६॥

tajjapāllabhate puṇyaṃ naro rudrākṣadhāraṇāt ।
dhātrīphalapramāṇaṃ yacchreṣṭhametadudāhṛtam ॥ 6॥

बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः ।
अधमं चणमात्रं स्यात्प्रक्रियैषा मयोच्यते ॥ ७॥

badarīphalamātraṃ tu madhyamaṃ procyate budhaiḥ ।
adhamaṃ caṇamātraṃ syātprakriyaiṣā mayocyate ॥ 7॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।
वृथा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ८॥

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।
vṛthā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ ॥ 8॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।
पीतास्तु वैश्या विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥ ९॥

śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।
pītāstu vaiśyā vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥ 9॥

ब्राह्मणो बिभृयाच्छ्वेतात्रक्तात्राजा तु धारयेत् ।
पीतान्वैश्यस्तु बिभृयात्कृष्णाञ्छूद्रस्तु धारयेत् ॥ १०॥

brāhmaṇo bibhṛyācchvetātraktātrājā tu dhārayet ।
pītānvaiśyastu bibhṛyātkṛṣṇāñchūdrastu dhārayet ॥ 10॥

समाः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः ।
कृमिदष्टं भिन्नभिन्नं कण्टकैर्हीनमेव च ॥ ११॥

samāḥ snigdhā dṛḍhāḥ sthūlāḥ kaṇṭakaiḥ saṃyutāḥ śubhāḥ ।
kṛmidaṣṭaṃ bhinnabhinnaṃ kaṇṭakairhīnameva ca ॥ 11॥

व्रणयुक्तमयुक्तं च षड्रुद्राक्षाणि वर्जयेत् ।
स्वयमेव कृतं द्वारं रुद्राक्षं स्यादिहोत्तमम् ॥ १२॥

vraṇayuktamayuktaṃ ca ṣaḍrudrākṣāṇi varjayet ।
svayameva kṛtaṃ dvāraṃ rudrākṣaṃ syādihottamam ॥ 12॥

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ।
समान्स्निग्धान्दृढान्स्थूलान्क्षौमसूत्रेण धारयेत् ॥ १३॥

yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet ।
samānsnigdhāndṛḍhānsthūlānkṣaumasūtreṇa dhārayet ॥ 13॥

सर्वगात्रेण सौम्येन सामान्यानि विचक्षणः ।
निकषे हेमरेखाभा यस्य रेखा प्रदृश्यते ॥ १४॥

sarvagātreṇa saumyena sāmānyāni vicakṣaṇaḥ ।
nikaṣe hemarekhābhā yasya rekhā pradṛśyate ॥ 14॥

तदक्षममुत्तमं विद्यात्तद्धार्यं शिवपूजकैः ।
शिखायामेकरुद्राक्षं त्रिशतं शिरसा वहेत् ॥ १५॥

tadakṣamamuttamaṃ vidyāttaddhāryaṃ śivapūjakaiḥ ।
śikhāyāmekarudrākṣaṃ triśataṃ śirasā vahet ॥ 15॥

षट्त्रिंशतं गले दध्यात्बाहोः षोडशषोडश ।
मणिबन्धे द्वादशैव स्कन्धे पञ्चशतं वहेत् ॥ १६॥

ṣaṭtriṃśataṃ gale dadhyātbāhoḥ ṣoḍaśaṣoḍaśa ।
maṇibandhe dvādaśaiva skandhe pañcaśataṃ vahet ॥ 16॥

अष्टोत्तरशतैर्मालामुपवीतं प्रकल्पयेत् ।
द्विसरं त्रिसरं वापि सराणां पञ्चकं तथा ॥ १७॥

aṣṭottaraśatairmālāmupavītaṃ prakalpayet ।
dvisaraṃ trisaraṃ vāpi sarāṇāṃ pañcakaṃ tathā ॥ 17॥

सराणां सप्तकं वापि बिभृयात्कण्ठदेशतः ।
मुकुटे कुण्डले चैव कर्णिकाहारकेऽपि वा ॥ १८॥

sarāṇāṃ saptakaṃ vāpi bibhṛyātkaṇṭhadeśataḥ ।
mukuṭe kuṇḍale caiva karṇikāhārake'pi vā ॥ 18॥

केयूरकटके सूत्रं कुक्षिबन्धे विशेषतः ।
सुप्ते पीते सदाकालं रुद्राक्षं धारयेन्नरः ॥ १९॥

keyūrakaṭake sūtraṃ kukṣibandhe viśeṣataḥ ।
supte pīte sadākālaṃ rudrākṣaṃ dhārayennaraḥ ॥ 19॥

त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते ।
सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् ॥ २०॥

triśataṃ tvadhamaṃ pañcaśataṃ madhyamamucyate ।
sahasramuttamaṃ proktamevaṃ bhedena dhārayet ॥ 20॥

शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण तु ।
अघोरेण गले धार्यं तेनैव हृदयेऽपि च ॥ २१॥

śirasīśānamantreṇa kaṇṭhe tatpuruṣeṇa tu ।
aghoreṇa gale dhāryaṃ tenaiva hṛdaye'pi ca ॥ 21॥

अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः ।
पञ्चाशदक्षग्रथितान्व्योमव्याप्यपि चोदरे ॥ २२॥

aghorabījamantreṇa karayordhārayetsudhīḥ ।
pañcāśadakṣagrathitānvyomavyāpyapi codare ॥ 22॥

पञ्च ब्रह्मभिरङ्गैशच त्रिमाला पञ्च सप्त च ।
ग्रथित्वा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् ॥ २३॥

pañca brahmabhiraṅgaiśaca trimālā pañca sapta ca ।
grathitvā mūlamantreṇa sarvāṇyakṣāṇi dhārayet ॥ 23॥

अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुन्डः पप्रच्छ
रुद्राक्षाणां भेदेन यदक्षं यत्स्वरूपं यत्फलमिति ।

atha hainaṃ bhagavantaṃ kālāgnirudraṃ bhusunḍaḥ papraccha
rudrākṣāṇāṃ bhedena yadakṣaṃ yatsvarūpaṃ yatphalamiti ।

तत्स्वरूपं मुखयुक्तमरिष्टनिरसनं कामाभीष्टफलं
ब्रूहीति होवाच ।

tatsvarūpaṃ mukhayuktamariṣṭanirasanaṃ kāmābhīṣṭaphalaṃ
brūhīti hovāca ।

तत्रैते श्लोका भवन्ति ॥

tatraite ślokā bhavanti ॥

एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् ।
तद्धारणात्परे तत्त्वे लीयते विजितेन्द्रियः ॥ १॥

ekavaktraṃ tu rudrākṣaṃ paratattvasvarūpakam ।
taddhāraṇātpare tattve līyate vijitendriyaḥ ॥ 1॥

द्विवक्त्रं तु मुनिश्रेष्ठ चार्धनारीश्वरात्मकम् ।
धारणादर्धनारीशः प्रीयते तस्य नित्यशः ॥ २॥

dvivaktraṃ tu muniśreṣṭha cārdhanārīśvarātmakam ।
dhāraṇādardhanārīśaḥ prīyate tasya nityaśaḥ ॥ 2॥

त्रिमुखं चैव रुद्राक्षमग्नित्रयस्वरूपकम् ।
तद्धारणाच्च हुतभुक्तस्य तुष्यति नित्यदा ॥ ३॥

trimukhaṃ caiva rudrākṣamagnitrayasvarūpakam ।
taddhāraṇācca hutabhuktasya tuṣyati nityadā ॥ 3॥

चतुर्मुखं तु रुद्राक्षं चतुर्वक्त्रस्वरूपकम् ।
तद्धारणाच्चतुर्वक्त्रः प्रीयते तस्य नित्यदा ॥ ४॥

caturmukhaṃ tu rudrākṣaṃ caturvaktrasvarūpakam ।
taddhāraṇāccaturvaktraḥ prīyate tasya nityadā ॥ 4॥

पञ्चवक्त्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् ।
पञ्चवक्त्रः स्वयं ब्रह्म पुंहत्यां च व्यपोहति ॥ ५॥

pañcavaktraṃ tu rudrākṣaṃ pañcabrahmasvarūpakam ।
pañcavaktraḥ svayaṃ brahma puṃhatyāṃ ca vyapohati ॥ 5॥

षड्वक्त्रमपि रुद्राक्षं कार्तिकेयाधिदैवतम् ।
तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ६॥

ṣaḍvaktramapi rudrākṣaṃ kārtikeyādhidaivatam ।
taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam ॥ 6॥

मतिविज्ञानसम्पत्तिशुद्धये धारयेत्सुधीः ।
विनायकाधिदैवं च प्रवदन्ति मनीषिणः ॥ ७॥

mativijñānasampattiśuddhaye dhārayetsudhīḥ ।
vināyakādhidaivaṃ ca pravadanti manīṣiṇaḥ ॥ 7॥

सप्तवक्त्रं तु रुद्राक्षं सप्तमाधिदैवतम् ।
तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ८॥

saptavaktraṃ tu rudrākṣaṃ saptamādhidaivatam ।
taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam ॥ 8॥

महती ज्ञानसम्पत्तिः शुचिर्धारणतः सदा ।
अष्टवक्त्रं तु रुद्राक्षमष्टमात्राधिदैवतम् ॥ ९॥

mahatī jñānasampattiḥ śucirdhāraṇataḥ sadā ।
aṣṭavaktraṃ tu rudrākṣamaṣṭamātrādhidaivatam ॥ 9॥

वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं तथा ।
तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः ॥ १०॥

vasvaṣṭakapriyaṃ caiva gaṅgāprītikaraṃ tathā ।
taddhāraṇādime prītā bhaveyuḥ satyavādinaḥ ॥ 10॥

नववक्त्रं तु रुद्राक्षं नवशक्त्यधिदैवतम् ।
तस्य धारणमात्रेण प्रीयन्ते नवशक्तयः ॥ ११॥

navavaktraṃ tu rudrākṣaṃ navaśaktyadhidaivatam ।
tasya dhāraṇamātreṇa prīyante navaśaktayaḥ ॥ 11॥

दशवक्त्रं तु रुद्राक्षं यमदैवत्यमीरितम् ।
दर्शनाच्छान्तिजनकं धारणान्नात्र संशयः ॥ १२॥

daśavaktraṃ tu rudrākṣaṃ yamadaivatyamīritam ।
darśanācchāntijanakaṃ dhāraṇānnātra saṃśayaḥ ॥ 12॥

एकादशमुखं त्वक्षं रुद्रैकादशदैवतम् ।
तदिदं दैवतं प्राहुः सदा सौभाग्यवर्धनम् ॥ १३॥

ekādaśamukhaṃ tvakṣaṃ rudraikādaśadaivatam ।
tadidaṃ daivataṃ prāhuḥ sadā saubhāgyavardhanam ॥ 13॥

रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् ।
द्वादशादित्यरूपं च बिभर्त्येव हि तत्परम् ॥ १४॥

rudrākṣaṃ dvādaśamukhaṃ mahāviṣṇusvarūpakam ।
dvādaśādityarūpaṃ ca bibhartyeva hi tatparam ॥ 14॥

त्रयोदशमुखं त्वक्षं कामदं सिद्धिदं शुभम् ।
तस्य धारणमात्रेण कामदेवः प्रसीदति ॥ १५॥

trayodaśamukhaṃ tvakṣaṃ kāmadaṃ siddhidaṃ śubham ।
tasya dhāraṇamātreṇa kāmadevaḥ prasīdati ॥ 15॥

चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् ।
सर्वव्याधिहरं चैव सर्वदारोग्यमाप्नुयात् ॥ १६॥

caturdaśamukhaṃ cākṣaṃ rudranetrasamudbhavam ।
sarvavyādhiharaṃ caiva sarvadārogyamāpnuyāt ॥ 16॥

मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च ।
श्लेष्मातकं विड्वराहमभक्ष्यं वर्जयेन्नरः ॥ १७॥

madyaṃ māṃsaṃ ca laśunaṃ palāṇḍuṃ śigrumeva ca ।
śleṣmātakaṃ viḍvarāhamabhakṣyaṃ varjayennaraḥ ॥ 17॥

ग्रहणे विषुवे चैवमयने संक्रमेऽपि च ।
दर्शेषु पूर्णमासे च पूर्णेषु दिवसेषु च ।
रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते ॥ १८॥

grahaṇe viṣuve caivamayane saṃkrame'pi ca ।
darśeṣu pūrṇamāse ca pūrṇeṣu divaseṣu ca ।
rudrākṣadhāraṇātsadyaḥ sarvapāpaiḥ pramucyate ॥ 18॥

रुद्राक्षमूलं तद्ब्रह्मा तन्नालं विष्णुरेव च ।
तन्मुखं रुद्र इत्याहुस्तद्बिन्दुः सर्वदेवताः ॥ १९॥

rudrākṣamūlaṃ tadbrahmā tannālaṃ viṣṇureva ca ।
tanmukhaṃ rudra ityāhustadbinduḥ sarvadevatāḥ ॥ 19॥

इति ॥

iti ॥

अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः
पप्रच्छाधीहि भगवन्रुद्राक्षधारणविधिम् ।

atha kālāgnirudraṃ bhagavantaṃ sanatkumāraḥ
papracchādhīhi bhagavanrudrākṣadhāraṇavidhim ।

तस्मिन्समये निदाघ-
जडभरतदत्तात्रेयकात्यायनभरद्वाजकपिलवसिष्ठ-
पिप्पलादादयश्च कालाग्निरुद्रं परिसमेत्योचुः ।

tasminsamaye nidāgha-
jaḍabharatadattātreyakātyāyanabharadvājakapilavasiṣṭha-
pippalādādayaśca kālāgnirudraṃ parisametyocuḥ ।

अथ कालाग्निरुद्रः किमर्थं भवतामागमनमिति होवाच ।

atha kālāgnirudraḥ kimarthaṃ bhavatāmāgamanamiti hovāca ।

रुद्राक्षधारणविधिं वै सर्वे श्रोतुमिच्छामह इति ।

rudrākṣadhāraṇavidhiṃ vai sarve śrotumicchāmaha iti ।

अथ कालाग्निरुद्रः प्रोवाच ।

atha kālāgnirudraḥ provāca ।

रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायन्ते ।

rudrasya nayanādutpannā rudrākṣā iti loke khyāyante ।

अथ सदाशिवः संहारकाले संहारं
कृत्वा संहाराक्षं मुकुलीकरोति ।

atha sadāśivaḥ saṃhārakāle saṃhāraṃ
kṛtvā saṃhārākṣaṃ mukulīkaroti ।

तन्नयनाज्जाता रुद्राक्षा इति होवाच ।

tannayanājjātā rudrākṣā iti hovāca ।

तस्माद्रुद्राक्षत्वमिति कालाग्निरुद्रः प्रोवाच ।

tasmādrudrākṣatvamiti kālāgnirudraḥ provāca ।

तद्रुद्राक्षे वाग्विषये कृते दशगोप्रदानेन
यत्फलमवाप्नोति तत्फलमश्नुते ।

tadrudrākṣe vāgviṣaye kṛte daśagopradānena
yatphalamavāpnoti tatphalamaśnute ।

स एष भस्मज्योती रुद्राक्ष इति ।

sa eṣa bhasmajyotī rudrākṣa iti ।

तद्रुद्राक्षं करेण स्पृष्ट्वा धारणमात्रेण
द्विसहस्रगोप्रदानफलं भवति ।

tadrudrākṣaṃ kareṇa spṛṣṭvā dhāraṇamātreṇa
dvisahasragopradānaphalaṃ bhavati ।

तद्रुद्राक्षे कर्णयोर्धार्यमाणे
एकादशसहस्रगोप्रदानफलं भवति ।

tadrudrākṣe karṇayordhāryamāṇe
ekādaśasahasragopradānaphalaṃ bhavati ।

एकादशरुद्रत्वं च गच्छति ।

ekādaśarudratvaṃ ca gacchati ।

तद्रुद्राक्षे शिरसि धार्यमाणे कोटिगोप्रदानफलं
भवति ।

tadrudrākṣe śirasi dhāryamāṇe koṭigopradānaphalaṃ
bhavati ।

एतेषां स्थानानां कर्णयोः फलं वक्तुं न
शक्यमिति होवाच ।

eteṣāṃ sthānānāṃ karṇayoḥ phalaṃ vaktuṃ na
śakyamiti hovāca ।

य इमां रुद्राक्षजाबालोपनिषदं नित्यमधीते
बालो वा युवा वा वेद स महान्भवति ।

ya imāṃ rudrākṣajābālopaniṣadaṃ nityamadhīte
bālo vā yuvā vā veda sa mahānbhavati ।

स गुरुः सर्वेषां मन्त्राणामुपदेष्टा भवति एतैरेव
होमं कुर्यात् ।

sa guruḥ sarveṣāṃ mantrāṇāmupadeṣṭā bhavati etaireva
homaṃ kuryāt ।

एतैरेवार्चनम् ।

etairevārcanam ।

तथा रक्षोघ्नं मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ
शिखायां वा बध्नीत ।

tathā rakṣoghnaṃ mṛtyutārakaṃ guruṇā labdhaṃ kaṇṭhe bāhau
śikhāyāṃ vā badhnīta ।

सप्तद्वीपवती भूमिर्दक्षिणार्थं नावकल्पते ।

saptadvīpavatī bhūmirdakṣiṇārthaṃ nāvakalpate ।

तस्माच्छ्रद्धया यां काञ्चिद्गां दद्यात्सा दक्षिणा भवति ।

tasmācchraddhayā yāṃ kāñcidgāṃ dadyātsā dakṣiṇā bhavati ।

य इमामुपनिषदं ब्राह्मणः सायमधीयानो दिवसकृतं
पापं नाशयति ।

ya imāmupaniṣadaṃ brāhmaṇaḥ sāyamadhīyāno divasakṛtaṃ
pāpaṃ nāśayati ।

मध्याह्नेऽधीयानः षड्जन्मकृतं पापं नाशयति ।

madhyāhne'dhīyānaḥ ṣaḍjanmakṛtaṃ pāpaṃ nāśayati ।

सायं प्रातः प्रयुञ्जानोऽनेकजन्मकृतं पापं नाशयति ।

sāyaṃ prātaḥ prayuñjāno'nekajanmakṛtaṃ pāpaṃ nāśayati ।

षट्सहस्रलक्षगायत्रीजपफलमवाप्नोति ।

ṣaṭsahasralakṣagāyatrījapaphalamavāpnoti ।

ब्रह्महत्यासुरापान-
स्वर्णस्तेयगुरुदारगमनतत्संयोगपातकेभ्यः पूतो भवति ।

brahmahatyāsurāpāna-
svarṇasteyagurudāragamanatatsaṃyogapātakebhyaḥ pūto bhavati ।

सर्वतीर्थफलमश्नुते ।

sarvatīrthaphalamaśnute ।

पतितसंभाषणात्पूतो भवति ।

patitasaṃbhāṣaṇātpūto bhavati ।

पङ्क्तिशतसहस्रपावनो भवति ।

paṅktiśatasahasrapāvano bhavati ।

शिवसायुज्यमवाप्नोति ।

śivasāyujyamavāpnoti ।

न च पुनरावर्तते न च पुनरावर्तत इत्योंसत्यमित्युपनिषत् ॥

na ca punarāvartate na ca punarāvartata ityoṃsatyamityupaniṣat ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
बलमिन्द्रियाणि च ॥

oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho
balamindriyāṇi ca ॥

सर्वाणि सर्वं ब्रह्मोपनिषदं माहं
ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-
स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ॥

sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ
brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇama-
stvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste
mayi santu te mayi santu ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

इति रुद्राक्षजाबालोपनिषत्समाप्ता ॥

iti rudrākṣajābālopaniṣatsamāptā ॥


© 1991-2026 Titi Tudorancea Yoga Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
Contact