Only Dharma. Since 1992
/ Vedanta / Upanishads (Sanskrit)

Darshana Upanishad (Shri Jabala Darshana Upanishad)

Sanskrit Devanagari with Roman transliteration (IAST)

 

॥ जाबालदर्शनोपनिषत् ॥

॥ jābāladarśanopaniṣat ॥

यमाद्यष्टाङ्गयोगेद्धं ब्रह्ममात्रप्रबोधतः ।
योगिनो यत्पदं यान्ति तत्कैवल्यपदं भजे ॥

yamādyaṣṭāṅgayogeddhaṃ brahmamātraprabodhataḥ ।
yogino yatpadaṃ yānti tatkaivalyapadaṃ bhaje ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥

oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca ॥

सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु
धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma
nirākarodanirākaraṇamastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu
dharmāste mayi santu te mayi santu ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ ॥

hariḥ oṃ ॥

दत्तात्रेयो महायोगी भगवान्भूतभावनः ।
चतुर्भुजो महाविष्णुर्योगसाम्राज्यदीक्षितः ॥ १॥

dattātreyo mahāyogī bhagavānbhūtabhāvanaḥ ।
caturbhujo mahāviṣṇuryogasāmrājyadīkṣitaḥ ॥ 1॥

तस्य शिष्यो मुनिवरः सांकृतिर्नाम भक्तिमान् ।
पप्रच्छ गुरुमेकान्ते प्राञ्जलिर्विनयान्वितः ॥ २॥

tasya śiṣyo munivaraḥ sāṃkṛtirnāma bhaktimān ।
papraccha gurumekānte prāñjalirvinayānvitaḥ ॥ 2॥

भगवन्ब्रूहि मे योगं साष्टाङ्गं सप्रपञ्चकम् ।
येन विज्ञातमात्रेण जीवन्मुक्तो भवाम्यहम् ॥ ३॥

bhagavanbrūhi me yogaṃ sāṣṭāṅgaṃ saprapañcakam ।
yena vijñātamātreṇa jīvanmukto bhavāmyaham ॥ 3॥

सांकृते श्रुणु वक्ष्यामि योगं साष्टाङ्गदर्शनम् ।
यमश्च नियमश्चैव तथैवासनमेव च ॥ ४॥

sāṃkṛte śruṇu vakṣyāmi yogaṃ sāṣṭāṅgadarśanam ।
yamaśca niyamaścaiva tathaivāsanameva ca ॥ 4॥

प्राणायामस्तथा ब्रह्मन्प्रत्याहारस्ततः परम् ।
धारणा च तथा ध्यानं समाधिश्चाष्टमं मुने ॥ ५॥

prāṇāyāmastathā brahmanpratyāhārastataḥ param ।
dhāraṇā ca tathā dhyānaṃ samādhiścāṣṭamaṃ mune ॥ 5॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ।
क्षमा धृतिर्मिताहारः शौचं चैव यमा दश ॥ ६॥

ahiṃsā satyamasteyaṃ brahmacaryaṃ dayārjavam ।
kṣamā dhṛtirmitāhāraḥ śaucaṃ caiva yamā daśa ॥ 6॥

वेदोक्तेन प्रकारेण विना सत्यं तपोधन ।
कायेन मनसा वाचा हिंसाऽहिंसा न चान्यथा ॥ ७॥

vedoktena prakāreṇa vinā satyaṃ tapodhana ।
kāyena manasā vācā hiṃsā'hiṃsā na cānyathā ॥ 7॥

आत्मा सर्वगतोऽच्छेद्यो न ग्राह्य इति मे मतिः ।
स चाहिंसा वरा प्रोक्ता मुने वेदान्तवेदिभिः ॥ ८॥

ātmā sarvagato'cchedyo na grāhya iti me matiḥ ।
sa cāhiṃsā varā proktā mune vedāntavedibhiḥ ॥ 8॥

चक्षुरादीन्द्रियैर्दृष्टं श्रुतं घ्रातं मुनीश्वर ।
तस्यैवोक्तिर्भवेत्सत्यं विप्र तन्नान्यथा भवेत् ॥ ९॥

cakṣurādīndriyairdṛṣṭaṃ śrutaṃ ghrātaṃ munīśvara ।
tasyaivoktirbhavetsatyaṃ vipra tannānyathā bhavet ॥ 9॥

सर्वं सत्यं परं ब्रह्म न चान्यदिति या मतिः ।
तच्च सत्यं वरं प्रोक्तं वेदान्तज्ञानपारगैः ॥ १०॥

sarvaṃ satyaṃ paraṃ brahma na cānyaditi yā matiḥ ।
tacca satyaṃ varaṃ proktaṃ vedāntajñānapāragaiḥ ॥ 10॥

अन्यदीये तृणे रत्ने काञ्चने मौक्तिकेऽपि च ।
मनसा विनिवृत्तिर्या तदस्तेयं विदुर्बुधाः ॥ ११॥

anyadīye tṛṇe ratne kāñcane mauktike'pi ca ।
manasā vinivṛttiryā tadasteyaṃ vidurbudhāḥ ॥ 11॥

आत्मन्यनात्मभावेन व्यवहारविवर्जितम् ।
यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते ॥ १२॥

ātmanyanātmabhāvena vyavahāravivarjitam ।
yattadasteyamityuktamātmavidbhirmahāmate ॥ 12॥

कायेन वाचा मनसा स्त्रीणां परिविवर्जनम् ।
ऋतौ भार्यां तदा स्वस्य ब्रह्मचर्यं तदुच्यते ॥ १३॥

kāyena vācā manasā strīṇāṃ parivivarjanam ।
ṛtau bhāryāṃ tadā svasya brahmacaryaṃ taducyate ॥ 13॥

ब्रह्मभावे मनश्चारं ब्रह्मचर्यं परन्तप ॥ १४॥

brahmabhāve manaścāraṃ brahmacaryaṃ parantapa ॥ 14॥

स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा ।
अनुज्ञा या दया सैव प्रोक्ता वेदान्तवेदिभिः ॥ १५॥

svātmavatsarvabhūteṣu kāyena manasā girā ।
anujñā yā dayā saiva proktā vedāntavedibhiḥ ॥ 15॥

पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि सन्ततम् ।
एकरूपं मुने यत्तदार्जवं प्रोच्यते मया ॥ १६॥

putre mitre kalatre ca ripau svātmani santatam ।
ekarūpaṃ mune yattadārjavaṃ procyate mayā ॥ 16॥

कायेन मनसा वाचा शत्रुभिः परिपीडिते ।
बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव ॥ १७॥

kāyena manasā vācā śatrubhiḥ paripīḍite ।
buddhikṣobhanivṛttiryā kṣamā sā munipuṅgava ॥ 17॥

वेदादेव विनिर्मोक्षः संसारस्य न चान्यथा ।
इति विज्ञाननिष्पत्तिर्धृतिः प्रोक्ता हि वैदिकैः ।
अहमात्मा न चान्योऽस्मीत्येवमप्रच्युता मतिः ॥ १८॥

vedādeva vinirmokṣaḥ saṃsārasya na cānyathā ।
iti vijñānaniṣpattirdhṛtiḥ proktā hi vaidikaiḥ ।
ahamātmā na cānyo'smītyevamapracyutā matiḥ ॥ 18॥

अल्पमृष्टाशनाभ्यां च चतुर्थांशावशेषकम् ।
तस्माद्योगानुगुण्येन भोजनं मितभोजनम् ॥ १९॥

alpamṛṣṭāśanābhyāṃ ca caturthāṃśāvaśeṣakam ।
tasmādyogānuguṇyena bhojanaṃ mitabhojanam ॥ 19॥

स्वदेहमलनिर्मोक्षो मृज्जलाभ्यां महामुने ।
यत्तच्छौचं भवेद्बाह्यं मानसं मननं विदुः ।
अहं शुद्ध इति ज्ञानं शौचमाहुर्मनीषिणः ॥ २०॥

svadehamalanirmokṣo mṛjjalābhyāṃ mahāmune ।
yattacchaucaṃ bhavedbāhyaṃ mānasaṃ mananaṃ viduḥ ।
ahaṃ śuddha iti jñānaṃ śaucamāhurmanīṣiṇaḥ ॥ 20॥

अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ २१॥

atyantamalino deho dehī cātyantanirmalaḥ ।
ubhayorantaraṃ jñātvā kasya śaucaṃ vidhīyate ॥ 21॥

ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः ।
स मूढः काऽचनं त्यक्त्वा लोष्ठं गृह्णाति सुव्रत ॥ २२॥

jñānaśaucaṃ parityajya bāhye yo ramate naraḥ ।
sa mūḍhaḥ kā'canaṃ tyaktvā loṣṭhaṃ gṛhṇāti suvrata ॥ 22॥

ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
न चास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥ २३॥

jñānāmṛtena tṛptasya kṛtakṛtyasya yoginaḥ ।
na cāsti kiṃcitkartavyamasti cenna sa tattvavit ॥ 23॥

लोकत्रयेऽपि कर्तव्यं किंचिन्नास्त्यात्मवेदिनाम् ॥ २४॥

lokatraye'pi kartavyaṃ kiṃcinnāstyātmavedinām ॥ 24॥

तस्मात्सर्वप्रयत्नेन मुनेऽहिंसादिसाधनैः ।
आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदनात् ॥ २५॥

tasmātsarvaprayatnena mune'hiṃsādisādhanaiḥ ।
ātmānamakṣaraṃ brahma viddhi jñānāttu vedanāt ॥ 25॥

इति प्रथमः खण्डः ॥ १॥

iti prathamaḥ khaṇḍaḥ ॥ 1॥

तपः सन्तोषमास्तिक्यं दानमीश्वरपूजनम् ।
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ॥ १॥

tapaḥ santoṣamāstikyaṃ dānamīśvarapūjanam ।
siddhāntaśravaṇaṃ caiva hrīrmatiśca japo vratam ॥ 1॥

एते च नियमाः प्रोक्तास्तान्वक्ष्यामि क्रमाच्छृणु ॥ २॥

ete ca niyamāḥ proktāstānvakṣyāmi kramācchṛṇu ॥ 2॥

वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रयणादिभिः ।
शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः ॥ ३॥

vedoktena prakāreṇa kṛcchracāndrayaṇādibhiḥ ।
śarīraśoṣaṇaṃ yattattapa ityucyate budhaiḥ ॥ 3॥

को वा मोक्षः कथं तेन संसारं प्रतिपन्नवान् ।
इत्यालोकनमर्थज्ञास्तपः शंसन्ति पण्डिताः ॥ ४॥

ko vā mokṣaḥ kathaṃ tena saṃsāraṃ pratipannavān ।
ityālokanamarthajñāstapaḥ śaṃsanti paṇḍitāḥ ॥ 4॥

यदृच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम् ।
तत्सन्तोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः ॥ ५॥

yadṛcchālābhato nityaṃ prītiryā jāyate nṛṇām ।
tatsantoṣaṃ viduḥ prājñāḥ parijñānaikatatparāḥ ॥ 5॥

ब्रह्मादिलोकपर्यन्ताद्विरक्त्या यल्लभेत्प्रियम् ।
सर्वत्र विगतस्नेहः संतोषं परमं विदुः ।
श्रौते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते ॥ ६॥

brahmādilokaparyantādviraktyā yallabhetpriyam ।
sarvatra vigatasnehaḥ saṃtoṣaṃ paramaṃ viduḥ ।
śraute smārte ca viśvāso yattadāstikyamucyate ॥ 6॥

न्यायार्जितधनं श्रान्ते श्रद्धया वैदिके जने ।
अन्यद्वा यत्प्रदीयन्ते तद्दानं प्रोच्यते मया ॥ ७॥

nyāyārjitadhanaṃ śrānte śraddhayā vaidike jane ।
anyadvā yatpradīyante taddānaṃ procyate mayā ॥ 7॥

रागाद्यपेतं हृदयं वागदुष्टानृतादिना ।
हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ॥ ८॥

rāgādyapetaṃ hṛdayaṃ vāgaduṣṭānṛtādinā ।
hiṃsādirahitaṃ karma yattadīśvarapūjanam ॥ 8॥

सत्यं ज्ञानमनन्तं च परानन्दं परं ध्रुवम् ।
प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधाः ॥ ९॥

satyaṃ jñānamanantaṃ ca parānandaṃ paraṃ dhruvam ।
pratyagityavagantavyaṃ vedāntaśravaṇaṃ budhāḥ ॥ 9॥

वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् ।
तस्मिन्भवति या लज्जा ह्रीः सैवेति प्रकीर्तिता ।
वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् ॥ १०॥

vedalaukikamārgeṣu kutsitaṃ karma yadbhavet ।
tasminbhavati yā lajjā hrīḥ saiveti prakīrtitā ।
vaidikeṣu ca sarveṣu śraddhā yā sā matirbhavet ॥ 10॥

गुरुणा चोपदिष्टोऽपि तत्र संबन्धवर्जितः ।
वेदोक्तेनैव मार्गेण मन्त्राभ्यासो जपः स्मृतः ॥ ११॥

guruṇā copadiṣṭo'pi tatra saṃbandhavarjitaḥ ।
vedoktenaiva mārgeṇa mantrābhyāso japaḥ smṛtaḥ ॥ 11॥

कल्पसूत्रे तथा वेदे धर्मशास्त्रे पुराणके ।
इतिहासे च वृत्तिर्या स जपः प्रोच्यते मया ॥ १२॥

kalpasūtre tathā vede dharmaśāstre purāṇake ।
itihāse ca vṛttiryā sa japaḥ procyate mayā ॥ 12॥

जपस्तु द्विविधः प्रोक्तो वाचिको मानसस्तथा ॥ १३॥

japastu dvividhaḥ prokto vāciko mānasastathā ॥ 13॥

वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः ।
मानसोमननध्यानभेदाद्द्वैविध्यमाश्रितः ॥ १४॥

vācikopāṃśuruccaiśca dvividhaḥ parikīrtitaḥ ।
mānasomananadhyānabhedāddvaividhyamāśritaḥ ॥ 14॥

उच्चैर्जपादुपांशुश्च सहस्रगुणमुच्यते ।
मानसश्च तथोपांशोः सहस्रगुणमुच्यते ॥ १५॥

uccairjapādupāṃśuśca sahasraguṇamucyate ।
mānasaśca tathopāṃśoḥ sahasraguṇamucyate ॥ 15॥

उच्चैर्जपश्च सर्वेषां यथोक्तफलदो भवेत् ।
नीचैःश्रोत्रेण चेन्मन्त्रः श्रुतश्चेन्निष्फलं भवेत् ॥ १६॥

uccairjapaśca sarveṣāṃ yathoktaphalado bhavet ।
nīcaiḥśrotreṇa cenmantraḥ śrutaścenniṣphalaṃ bhavet ॥ 16॥

इति॥

iti॥

इति द्वितीयः खण्डः ॥ २॥

iti dvitīyaḥ khaṇḍaḥ ॥ 2॥

स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा ।
भद्रं मुक्तासनं चैव मयूरासनमेव च ॥ १॥

svastikaṃ gomukhaṃ padmaṃ vīrasiṃhāsane tathā ।
bhadraṃ muktāsanaṃ caiva mayūrāsanameva ca ॥ 1॥

सुखासनसमाख्यं च नवमं मुनिपुङ्गव ।
जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उभे ॥ २॥

sukhāsanasamākhyaṃ ca navamaṃ munipuṅgava ।
jānūrvorantare kṛtvā samyak pādatale ubhe ॥ 2॥

समग्रीवशिरःकायः स्वस्तिकं नित्यमभ्यसेत् ।
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ॥ ३॥

samagrīvaśiraḥkāyaḥ svastikaṃ nityamabhyaset ।
savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet ॥ 3॥

दक्षिणेऽपि तथा सव्यं गोमुखं तत्प्रचक्षते ।
अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां व्युत्क्रमेण तु ॥ ४॥

dakṣiṇe'pi tathā savyaṃ gomukhaṃ tatpracakṣate ।
aṅguṣṭhāvadhi gṛhṇīyāddhastābhyāṃ vyutkrameṇa tu ॥ 4॥

ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतलद्वयम् ।
पद्मासनं भवेत्प्राज्ञ सर्वरोगभयापहम् ॥ ५॥

ūrvorupari viprendra kṛtvā pādataladvayam ।
padmāsanaṃ bhavetprājña sarvarogabhayāpaham ॥ 5॥

दक्षिणेतरपादं तु दक्षिणोरुणि विन्यसेत् ।
ऋजुकायः समासीनो वीरासनमुदाहृतम् ॥ ६॥

dakṣiṇetarapādaṃ tu dakṣiṇoruṇi vinyaset ।
ṛjukāyaḥ samāsīno vīrāsanamudāhṛtam ॥ 6॥

गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ।
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।
भद्रासनं भवेदेतद्विषरोगविनाशनम् ॥ ७॥

gulphau tu vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet ।
pārśvapādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam ।
bhadrāsanaṃ bhavedetadviṣarogavināśanam ॥ 7॥

निपीड्य सीवनीं सूक्ष्मं दक्षिणेतरगुल्फतः ।
वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत् ॥ ८॥

nipīḍya sīvanīṃ sūkṣmaṃ dakṣiṇetaragulphataḥ ।
vāmaṃ yāmyena gulphena muktāsanamidaṃ bhavet ॥ 8॥

मेढ्रादुपरि निक्षिप्य सव्यं गुल्फं ततोपरि ।
गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने ॥ ९॥

meḍhrādupari nikṣipya savyaṃ gulphaṃ tatopari ।
gulphāntaraṃ ca saṃkṣipya muktāsanamidaṃ mune ॥ 9॥

कूर्पराग्रे मुनिश्रेष्ठ निक्षिपेन्नाभिपार्श्वयोः ।
भूम्यां पाणितलद्वन्द्वं निक्षिप्यैकाग्रमानसः ॥ १०॥

kūrparāgre muniśreṣṭha nikṣipennābhipārśvayoḥ ।
bhūmyāṃ pāṇitaladvandvaṃ nikṣipyaikāgramānasaḥ ॥ 10॥

समुन्नतशिरःपादो दण्डवद्व्योम्निसंस्थितः ।
मयूरासनमेतत्स्यात्सर्वपापप्रणाशनम् ॥ ११॥

samunnataśiraḥpādo daṇḍavadvyomnisaṃsthitaḥ ।
mayūrāsanametatsyātsarvapāpapraṇāśanam ॥ 11॥

येन केन प्रकारेण सुखं धैर्यं च जायते ।
तत्सुखासनमित्युक्तमशक्तस्तत्समाश्रयेत् ॥ १२॥

yena kena prakāreṇa sukhaṃ dhairyaṃ ca jāyate ।
tatsukhāsanamityuktamaśaktastatsamāśrayet ॥ 12॥

आसनं विजितं येन जितं तेन जगत्त्रयम् ।
अनेन विधिना युक्तः प्राणायामं सदा कुरु ॥ १३॥

āsanaṃ vijitaṃ yena jitaṃ tena jagattrayam ।
anena vidhinā yuktaḥ prāṇāyāmaṃ sadā kuru ॥ 13॥

इति॥

iti॥

इति तृतीयः खण्डः ॥ ३॥

iti tṛtīyaḥ khaṇḍaḥ ॥ 3॥

शरीरं तावदेव स्यात्षण्णवत्यङ्गुलात्मकम् ।
देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् ॥ १॥

śarīraṃ tāvadeva syātṣaṇṇavatyaṅgulātmakam ।
dehamadhye śikhisthānaṃ taptajāmbūnadaprabham ॥ 1॥

त्रिकोणं मनुजानां तु सत्यमुक्तं हि सांकृते ।
गुदात्तु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यन्ङ्गुलादधः ॥ २॥

trikoṇaṃ manujānāṃ tu satyamuktaṃ hi sāṃkṛte ।
gudāttu dvyaṅgulādūrdhvaṃ meḍhrāttu dvyanṅgulādadhaḥ ॥ 2॥

देहमध्यं मुनिप्रोक्तमनुजानीहि सांकृते ।
कन्दस्थानं मुनिश्रेष्ठ मूलाधारान्नवाङ्गुलम् ॥ ३॥

dehamadhyaṃ muniproktamanujānīhi sāṃkṛte ।
kandasthānaṃ muniśreṣṭha mūlādhārānnavāṅgulam ॥ 3॥

चतुरङ्गुलमायामविस्तारं मुनिपुङ्गव ।
कुक्कुटाण्डसमाकारं भूषितं तु त्वगादिभिः ॥ ४॥

caturaṅgulamāyāmavistāraṃ munipuṅgava ।
kukkuṭāṇḍasamākāraṃ bhūṣitaṃ tu tvagādibhiḥ ॥ 4॥

तन्मध्ये नाभिरित्युक्तं योगज्ञैर्मुनिपुङ्गव ।
कन्दमध्यस्थिता नाडी सुषुम्नेति प्रकीर्तिता ॥ ५॥

tanmadhye nābhirityuktaṃ yogajñairmunipuṅgava ।
kandamadhyasthitā nāḍī suṣumneti prakīrtitā ॥ 5॥

तिष्ठन्ति परितस्तस्या नाडयो मुनिपुङ्गव ।
द्विसप्ततिसहस्राणि तासां मुख्याश्चतुर्दश ॥ ६॥

tiṣṭhanti paritastasyā nāḍayo munipuṅgava ।
dvisaptatisahasrāṇi tāsāṃ mukhyāścaturdaśa ॥ 6॥

सुषुम्ना पिङ्गला तद्वदिडा चैव सरस्वती ।
पूषा च वरुणा चैव हस्तिजिह्वा यशस्विनी ॥ ७॥

suṣumnā piṅgalā tadvadiḍā caiva sarasvatī ।
pūṣā ca varuṇā caiva hastijihvā yaśasvinī ॥ 7॥

अलम्बुसा कुहुश्चैव विश्वोदरी तपस्विनी ।
शङ्खिनी चैव गान्धारा इति मुख्याश्चतुर्दश ॥ ८॥

alambusā kuhuścaiva viśvodarī tapasvinī ।
śaṅkhinī caiva gāndhārā iti mukhyāścaturdaśa ॥ 8॥

तासां मुख्यतमास्तिस्रस्तिसृष्वेकोत्तमोत्तमा ।
ब्रह्मनाडीति सा प्रोक्ता मुने वेदान्तवेदिभिः ॥ ९॥

tāsāṃ mukhyatamāstisrastisṛṣvekottamottamā ।
brahmanāḍīti sā proktā mune vedāntavedibhiḥ ॥ 9॥

पृष्ठमध्यस्थितेनान्स्था वीणादण्डेन सुव्रत ।
सह मस्तकपर्यन्तं सुषुम्ना सुप्रतिष्ठिता ॥ १०॥

pṛṣṭhamadhyasthitenānsthā vīṇādaṇḍena suvrata ।
saha mastakaparyantaṃ suṣumnā supratiṣṭhitā ॥ 10॥

नाभिकन्दादधः स्थानं कुण्डल्या द्व्यङ्गुलं मुने ।
अष्टप्रकृतिरूपा सा कुण्डली मुनिसत्तम ॥ ११॥

nābhikandādadhaḥ sthānaṃ kuṇḍalyā dvyaṅgulaṃ mune ।
aṣṭaprakṛtirūpā sā kuṇḍalī munisattama ॥ 11॥

यथावद्वायुचेष्टां च जलान्नादीनि नित्यशः ।
परितः कन्दपार्श्वेषु निरुध्यैव सदा स्थिता ॥ १२॥

yathāvadvāyuceṣṭāṃ ca jalānnādīni nityaśaḥ ।
paritaḥ kandapārśveṣu nirudhyaiva sadā sthitā ॥ 12॥

स्वमुखेन समावेष्ट्य ब्रह्मरन्ध्रमुखं मुने ।
सुषुम्नाया इडा सव्ये दक्षिणे पिङ्गला स्थिता ॥ १३॥

svamukhena samāveṣṭya brahmarandhramukhaṃ mune ।
suṣumnāyā iḍā savye dakṣiṇe piṅgalā sthitā ॥ 13॥

सरस्वती कुहुश्चैव सुषुम्नापार्श्वयोः स्थिते ।
गान्धारा हस्तिजिह्वा च इडायाः पृष्ठपार्श्वयोः ॥ १४॥

sarasvatī kuhuścaiva suṣumnāpārśvayoḥ sthite ।
gāndhārā hastijihvā ca iḍāyāḥ pṛṣṭhapārśvayoḥ ॥ 14॥

पूषा यशस्विनी चैव पिङ्गला पृष्ठपूर्वयोः ।
कुहोश्च हस्तिजिह्वाया मध्ये विश्वोदरी स्थिता ॥ १५॥

pūṣā yaśasvinī caiva piṅgalā pṛṣṭhapūrvayoḥ ।
kuhośca hastijihvāyā madhye viśvodarī sthitā ॥ 15॥

यशस्विन्याः कुहोर्मध्ये वरुणा सुप्रतिष्ठिता ।
पूषाश्च सरस्वत्या मध्ये प्रोक्ता यशस्विनी ॥ १६॥

yaśasvinyāḥ kuhormadhye varuṇā supratiṣṭhitā ।
pūṣāśca sarasvatyā madhye proktā yaśasvinī ॥ 16॥

गान्धारायाः सरस्वत्या मध्ये प्रोक्ता च शङ्खिनी ।
अलम्बुसा स्थिता पायुपर्यन्तं कन्दमध्यगा ॥ १७॥

gāndhārāyāḥ sarasvatyā madhye proktā ca śaṅkhinī ।
alambusā sthitā pāyuparyantaṃ kandamadhyagā ॥ 17॥

पूर्वभागे सुषुम्नाया राकायाः संस्थिता कुहूः ।
अधश्चोर्ध्वं स्थिता नाडी याम्यनासान्तमिष्यते ॥ १८॥

pūrvabhāge suṣumnāyā rākāyāḥ saṃsthitā kuhūḥ ।
adhaścordhvaṃ sthitā nāḍī yāmyanāsāntamiṣyate ॥ 18॥

इअडा तु सव्यनासान्तं संस्थिता मुनिपुङ्गव ।
यशस्विनी च वामस्य पादाङ्गुष्ठान्तमिष्यते ॥ १९॥

iaḍā tu savyanāsāntaṃ saṃsthitā munipuṅgava ।
yaśasvinī ca vāmasya pādāṅguṣṭhāntamiṣyate ॥ 19॥

पूषा वामाक्षिपर्यन्ता पिङ्गलायास्तु पृष्ठतः ।
पयस्विनी च याम्यस्य कर्णान्तं प्रोच्यते बुधैः ॥ २०॥

pūṣā vāmākṣiparyantā piṅgalāyāstu pṛṣṭhataḥ ।
payasvinī ca yāmyasya karṇāntaṃ procyate budhaiḥ ॥ 20॥

सरस्वती तथा चोर्ध्वगता जिह्वा तथा मुने ।
हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते ॥ २१॥

sarasvatī tathā cordhvagatā jihvā tathā mune ।
hastijihvā tathā savyapādāṅguṣṭhāntamiṣyate ॥ 21॥

शङ्खिनी नाम या नाडी सव्यकर्णान्तमिष्यते ।
गान्धारा सव्यनेत्रान्ता प्रोक्ता वेदान्तवेदिभिः ॥ २२॥

śaṅkhinī nāma yā nāḍī savyakarṇāntamiṣyate ।
gāndhārā savyanetrāntā proktā vedāntavedibhiḥ ॥ 22॥

विश्वोदराभिधा नाडी कन्दमध्ये व्यवस्थिता ।
प्राणोऽपानस्तथा व्यानः समानोदान एव च ॥ २३॥

viśvodarābhidhā nāḍī kandamadhye vyavasthitā ।
prāṇo'pānastathā vyānaḥ samānodāna eva ca ॥ 23॥

नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ।
एते नाडीषु सर्वासु चरन्ति दश वायवः ॥ २४॥

nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ ।
ete nāḍīṣu sarvāsu caranti daśa vāyavaḥ ॥ 24॥

तेषु प्राणादयः पञ्च मुख्याः पञ्चसु सुव्रत ।
प्राणसंज्ञस्तथापानः पूज्यः प्राणस्तयोर्मुने ॥ २५॥

teṣu prāṇādayaḥ pañca mukhyāḥ pañcasu suvrata ।
prāṇasaṃjñastathāpānaḥ pūjyaḥ prāṇastayormune ॥ 25॥

आस्यनासिकयोर्मध्ये नाभिमध्ये तथा हृदि ।
प्राणसंज्ञोऽनिलो नित्यं वर्तते मुनिसत्तम ॥ २६॥

āsyanāsikayormadhye nābhimadhye tathā hṛdi ।
prāṇasaṃjño'nilo nityaṃ vartate munisattama ॥ 26॥

अपानो वर्तते नित्यं गुदमध्योरुजानुषु ।
उदरे सकले कट्यां नाभौ जङ्घे च सुव्रत ॥ २७॥

apāno vartate nityaṃ gudamadhyorujānuṣu ।
udare sakale kaṭyāṃ nābhau jaṅghe ca suvrata ॥ 27॥

व्यानः श्रोत्राक्षिमध्ये च कुकुभ्द्यां गुल्फयोरपि ।
प्राणस्थाने गले चैव वर्तते मुनिपुङ्गव ॥ २८॥

vyānaḥ śrotrākṣimadhye ca kukubhdyāṃ gulphayorapi ।
prāṇasthāne gale caiva vartate munipuṅgava ॥ 28॥

उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि ।
समानः सर्वदेहेषु व्याप्य तिष्ठत्यसंशयः ॥ २९॥

udānasaṃjño vijñeyaḥ pādayorhastayorapi ।
samānaḥ sarvadeheṣu vyāpya tiṣṭhatyasaṃśayaḥ ॥ 29॥

नागादिवायवः पञ्चत्वगस्थ्यादिषु संस्थिताः ।
निःश्वासोच्छ्वासकासाश्च प्राणकर्म हि सांकृते ॥ ३०॥

nāgādivāyavaḥ pañcatvagasthyādiṣu saṃsthitāḥ ।
niḥśvāsocchvāsakāsāśca prāṇakarma hi sāṃkṛte ॥ 30॥

अपानाख्यस्य वायोस्तु विण्मूत्रादिविसर्जनम् ।
समानः सर्वसामीप्यं करोति मुनिपुङ्गव ॥ ३१॥

apānākhyasya vāyostu viṇmūtrādivisarjanam ।
samānaḥ sarvasāmīpyaṃ karoti munipuṅgava ॥ 31॥

उदान ऊर्ध्वगमनं करोत्येव न संशयः ।
व्यानो विवादकृत्प्रोक्तो मुने वेदान्तवेदिभिः ॥ ३२॥

udāna ūrdhvagamanaṃ karotyeva na saṃśayaḥ ।
vyāno vivādakṛtprokto mune vedāntavedibhiḥ ॥ 32॥

उद्गारादिगुणः प्रोक्तो व्यानाख्यस्य महामुने ।
धनञ्जयस्य शोभादि कर्म प्रोक्तं हि सांकृते ॥ ३३॥

udgārādiguṇaḥ prokto vyānākhyasya mahāmune ।
dhanañjayasya śobhādi karma proktaṃ hi sāṃkṛte ॥ 33॥

निमीलनादि कूर्मस्य क्षुधा तु कृकरस्य च ।
देवदत्तस्य विप्रेन्द्र तन्द्रीकर्म प्रकीर्तितम् ॥ ३४॥

nimīlanādi kūrmasya kṣudhā tu kṛkarasya ca ।
devadattasya viprendra tandrīkarma prakīrtitam ॥ 34॥

सुषुम्नायाः शिवो देव इडाया देवता हरिः ।
पिङ्गलाया विरञ्चिः स्यात्सरस्वत्या विराण्मुने ॥ ३५॥

suṣumnāyāḥ śivo deva iḍāyā devatā hariḥ ।
piṅgalāyā virañciḥ syātsarasvatyā virāṇmune ॥ 35॥

पूषाधिदेवता प्रोक्ता वरुणा वायुदेवता ।
हस्तिजिह्वाभिधायास्तु वरुणो देवता भवेत् ॥ ३६॥

pūṣādhidevatā proktā varuṇā vāyudevatā ।
hastijihvābhidhāyāstu varuṇo devatā bhavet ॥ 36॥

यशस्विन्या मुनिश्रेष्ठ भगवान्भास्करस्तथा ।
अलम्बुसाया अबात्मा वरुणः परिकीर्तितः ॥ ३७॥

yaśasvinyā muniśreṣṭha bhagavānbhāskarastathā ।
alambusāyā abātmā varuṇaḥ parikīrtitaḥ ॥ 37॥

कुहोः क्षुद्देवता प्रोक्ता गान्धारी चन्द्रदेवता ।
शङ्खिन्याश्चन्द्रमास्तद्वत्पयस्विन्याः प्रजापतिः ॥ ३८॥

kuhoḥ kṣuddevatā proktā gāndhārī candradevatā ।
śaṅkhinyāścandramāstadvatpayasvinyāḥ prajāpatiḥ ॥ 38॥

विश्वोदराभिधायास्तु भगवान्पावकः पतिः ।
इडायां चन्द्रमा नित्यं चरत्येव महामुने ॥ ३९॥

viśvodarābhidhāyāstu bhagavānpāvakaḥ patiḥ ।
iḍāyāṃ candramā nityaṃ caratyeva mahāmune ॥ 39॥

पिङ्गलायां रविस्तद्वन्मुने वेदविदां वर ।
पिङ्गलायामिडायां तु वायोः संक्रमणं तु यत् ॥ ४०॥

piṅgalāyāṃ ravistadvanmune vedavidāṃ vara ।
piṅgalāyāmiḍāyāṃ tu vāyoḥ saṃkramaṇaṃ tu yat ॥ 40॥

तदुत्तरायणं प्रोक्तं मुने वेदान्तवेदिभिः ।
इडायां पिङ्गलायां तु प्राणसंक्रमणं मुने ॥ ४१॥

taduttarāyaṇaṃ proktaṃ mune vedāntavedibhiḥ ।
iḍāyāṃ piṅgalāyāṃ tu prāṇasaṃkramaṇaṃ mune ॥ 41॥

दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः ।
इडापिङ्गलयोः संधिं यदा प्राणः समागतः ॥ ४२॥

dakṣiṇāyanamityuktaṃ piṅgalāyāmiti śrutiḥ ।
iḍāpiṅgalayoḥ saṃdhiṃ yadā prāṇaḥ samāgataḥ ॥ 42॥

अमावास्या तदा प्रोक्ता देहे देहभृतां वर ।
मूलाधारं यदा प्राणः प्रविष्टः पण्डितोत्तम ॥ ४३॥

amāvāsyā tadā proktā dehe dehabhṛtāṃ vara ।
mūlādhāraṃ yadā prāṇaḥ praviṣṭaḥ paṇḍitottama ॥ 43॥

तदाद्यं विषुवं प्रोक्तं तपसैस्तापतोत्तम ।
प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्राविशद्यदा ॥ ४४॥

tadādyaṃ viṣuvaṃ proktaṃ tapasaistāpatottama ।
prāṇasaṃjño muniśreṣṭha mūrdhānaṃ prāviśadyadā ॥ 44॥

तदन्त्यं विषुवं प्रोक्तं तापसैस्तत्त्वचिन्तकैः ।
निःश्वासोच्छ्वासनं सर्वं मासानां संक्रमो भवेत् ॥ ४५॥

tadantyaṃ viṣuvaṃ proktaṃ tāpasaistattvacintakaiḥ ।
niḥśvāsocchvāsanaṃ sarvaṃ māsānāṃ saṃkramo bhavet ॥ 45॥

इडायाः कुण्डलीस्थानं यदा प्राणः समागतः ।
सोमग्रहणमित्युक्तं तदा तत्त्वविदां वर ॥ ४६॥

iḍāyāḥ kuṇḍalīsthānaṃ yadā prāṇaḥ samāgataḥ ।
somagrahaṇamityuktaṃ tadā tattvavidāṃ vara ॥ 46॥

यदा पिङ्गलया प्राणः कुण्डलीस्थानमागतः ।
तदातदा भवेत्सूर्यग्रहण मुनिपुङ्गव ॥ ४७॥

yadā piṅgalayā prāṇaḥ kuṇḍalīsthānamāgataḥ ।
tadātadā bhavetsūryagrahaṇa munipuṅgava ॥ 47॥

श्रीपर्वतं शिरःस्थाने केदारं तु ललाटके ।
वाराणसी महाप्राज्ञ भ्रुवोर्घ्राणस्य मध्यमे ॥ ४८॥

śrīparvataṃ śiraḥsthāne kedāraṃ tu lalāṭake ।
vārāṇasī mahāprājña bhruvorghrāṇasya madhyame ॥ 48॥

कुरुक्षेत्रं कुचस्थाने प्रयागं हृत्सरोरुहे ।
चिदम्बरं तु हृन्मध्ये आधारे कमलालयम् ॥ ४९॥

kurukṣetraṃ kucasthāne prayāgaṃ hṛtsaroruhe ।
cidambaraṃ tu hṛnmadhye ādhāre kamalālayam ॥ 49॥

आत्मतीर्थं समुत्सृज्य बहिस्तीर्थानि यो व्रजेत् ।
करस्थं स महारत्नं त्यक्त्वा काचं विमार्गते ॥ ५०॥

ātmatīrthaṃ samutsṛjya bahistīrthāni yo vrajet ।
karasthaṃ sa mahāratnaṃ tyaktvā kācaṃ vimārgate ॥ 50॥

भावतीर्थं परं तीर्थं प्रमाणं सर्वकर्मसु ।
अन्यथालिङ्ग्यते कान्ता अन्यथालिङ्ग्यते सुता ॥ ५१॥

bhāvatīrthaṃ paraṃ tīrthaṃ pramāṇaṃ sarvakarmasu ।
anyathāliṅgyate kāntā anyathāliṅgyate sutā ॥ 51॥

तीर्थानि तोयपूर्णानि देवान्काष्ठादिनिर्मितान् ।
योगिनो न प्रपूज्यन्ते स्वात्मप्रत्ययकारणात् ॥ ५२॥

tīrthāni toyapūrṇāni devānkāṣṭhādinirmitān ।
yogino na prapūjyante svātmapratyayakāraṇāt ॥ 52॥

बहिस्तीर्थात्परं तीर्थमन्तस्तीर्थं महामुने ।
आत्मतीर्थं महातीर्थमन्यत्तीर्थं निरर्थकम् ॥ ५३॥

bahistīrthātparaṃ tīrthamantastīrthaṃ mahāmune ।
ātmatīrthaṃ mahātīrthamanyattīrthaṃ nirarthakam ॥ 53॥

चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुद्ध्यति ।
शतशोऽपि जलैर्धौतं सुराभाण्डमिवशुचि ॥ ५४॥

cittamantargataṃ duṣṭaṃ tīrthasnānairna śuddhyati ।
śataśo'pi jalairdhautaṃ surābhāṇḍamivaśuci ॥ 54॥

विषुवायनकालेषु ग्रहणे चान्तरे सदा ।
वाराणस्यादिके स्थाने स्नात्वा शुद्धो भवेन्नरः ॥ ५५॥

viṣuvāyanakāleṣu grahaṇe cāntare sadā ।
vārāṇasyādike sthāne snātvā śuddho bhavennaraḥ ॥ 55॥

ज्ञानयोगपराणां तु पादप्रक्षालितं जलम् ।
भावशुद्ध्यर्थमज्ञानां तत्तीर्थं मुनिपुङ्गव ॥ ५६॥

jñānayogaparāṇāṃ tu pādaprakṣālitaṃ jalam ।
bhāvaśuddhyarthamajñānāṃ tattīrthaṃ munipuṅgava ॥ 56॥

तीर्थे ज्ञाने जपे यज्ञे काष्ठे पाषाणके सदा ।
शिवं पश्यति मूढात्मा शिवे देहे प्रतिष्ठिते ॥ ५७॥

tīrthe jñāne jape yajñe kāṣṭhe pāṣāṇake sadā ।
śivaṃ paśyati mūḍhātmā śive dehe pratiṣṭhite ॥ 57॥

अन्तस्थं मां परित्यज्य बहिष्ठं यस्तु सेवते ।
हस्तस्थं पिण्डमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ ५८॥

antasthaṃ māṃ parityajya bahiṣṭhaṃ yastu sevate ।
hastasthaṃ piṇḍamutsṛjya lihetkūrparamātmanaḥ ॥ 58॥

शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः ।
अज्ञानं भावनार्थाय प्रतिमाः परिकल्पिताः ॥ ५९॥

śivamātmani paśyanti pratimāsu na yoginaḥ ।
ajñānaṃ bhāvanārthāya pratimāḥ parikalpitāḥ ॥ 59॥

अपूर्वमपरं ब्रह्म स्वात्मानं सत्यमद्वयम् ।
प्रज्ञानघनमानन्दं यः पश्यति स पश्यति ॥ ६०॥

apūrvamaparaṃ brahma svātmānaṃ satyamadvayam ।
prajñānaghanamānandaṃ yaḥ paśyati sa paśyati ॥ 60॥

नाडीपुञ्जं सदा सारं नरभावं महामुने ।
समुत्सृज्यात्मनात्मानमहमित्येव धारय ॥ ६१॥

nāḍīpuñjaṃ sadā sāraṃ narabhāvaṃ mahāmune ।
samutsṛjyātmanātmānamahamityeva dhāraya ॥ 61॥

अशरीरं शरीरेषु महान्तं विभुमीश्वरम् ।
आनन्दमक्षरं साक्षान्मत्वा धीरो न शोचति ॥ ६२॥

aśarīraṃ śarīreṣu mahāntaṃ vibhumīśvaram ।
ānandamakṣaraṃ sākṣānmatvā dhīro na śocati ॥ 62॥

विभेदजनके ज्ञाने नष्टे ज्ञानबलान्मुने ।
आत्मनो ब्रह्मणो भेदमसन्तं किं करिष्यति ॥ ६३॥

vibhedajanake jñāne naṣṭe jñānabalānmune ।
ātmano brahmaṇo bhedamasantaṃ kiṃ kariṣyati ॥ 63॥

इति॥

iti॥

इति चतुर्थः खण्डः ॥ ४॥

iti caturthaḥ khaṇḍaḥ ॥ 4॥

सम्यक्कथय मे ब्रह्मनाडीशुद्धिं समासतः ।
यथा शुद्ध्या सदा ध्यायञ्जीवन्मुक्तो भवाम्यहम् ॥ १॥

samyakkathaya me brahmanāḍīśuddhiṃ samāsataḥ ।
yathā śuddhyā sadā dhyāyañjīvanmukto bhavāmyaham ॥ 1॥

सांकृते श्रुणु वक्ष्यामि नाडीशुद्धिं समासतः ।
विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः ॥ २॥

sāṃkṛte śruṇu vakṣyāmi nāḍīśuddhiṃ samāsataḥ ।
vidhyuktakarmasaṃyuktaḥ kāmasaṃkalpavarjitaḥ ॥ 2॥

यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः ।
स्वात्मन्यवस्थितः सम्यग्ज्ञानिभिश्च सुशिक्षितः ॥ ३॥

yamādyaṣṭāṅgasaṃyuktaḥ śāntaḥ satyaparāyaṇaḥ ।
svātmanyavasthitaḥ samyagjñānibhiśca suśikṣitaḥ ॥ 3॥

पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा ।
मनोरमे शुचौ देशे मठं कृत्वा समाहितः ॥ ४॥

parvatāgre nadītīre bilvamūle vane'thavā ।
manorame śucau deśe maṭhaṃ kṛtvā samāhitaḥ ॥ 4॥

आरभ्य चासनं पश्चात्प्राङ्मुखोदङ्मुखोऽपि वा ।
समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः ॥ ५॥

ārabhya cāsanaṃ paścātprāṅmukhodaṅmukho'pi vā ।
samagrīvaśiraḥkāyaḥ saṃvṛtāsyaḥ suniścalaḥ ॥ 5॥

नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् ।
स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ॥ ६॥

nāsāgre śaśabhṛdbimbe bindumadhye turīyakam ।
sravantamamṛtaṃ paśyennetrābhyāṃ susamāhitaḥ ॥ 6॥

इडया प्राणमाकृष्य पूरयित्वोदरे स्थितम् ।
ततोऽग्निं देहमध्यस्थं ध्यायञ्ज्वालावलीयुतम् ॥ ७॥

iḍayā prāṇamākṛṣya pūrayitvodare sthitam ।
tato'gniṃ dehamadhyasthaṃ dhyāyañjvālāvalīyutam ॥ 7॥

बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् ।
पश्चाद्विरेचयेत्सम्यक्प्राणं पिङ्गलया बुधः ॥ ८॥

bindunādasamāyuktamagnibījaṃ vicintayet ।
paścādvirecayetsamyakprāṇaṃ piṅgalayā budhaḥ ॥ 8॥

पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् ।
पुनर्विरचयेद्धीमानिडयैव शनैः शनैः ॥ ९॥

punaḥ piṅgalayāpūrya vahnibījamanusmaret ।
punarviracayeddhīmāniḍayaiva śanaiḥ śanaiḥ ॥ 9॥

त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च ।
षट्कृत्वा विचरेन्नित्यं रहस्येवं त्रिसन्धिषु ॥ १०॥

tricaturvāsaraṃ vātha tricaturvārameva ca ।
ṣaṭkṛtvā vicarennityaṃ rahasyevaṃ trisandhiṣu ॥ 10॥

नाडीशुद्धिमवाप्नोति पृथक् चिह्नोपलक्षितः ।
शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः ॥ ११॥

nāḍīśuddhimavāpnoti pṛthak cihnopalakṣitaḥ ।
śarīralaghutā dīptirvahnerjāṭharavartinaḥ ॥ 11॥

नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम् ।
यावदेतानि सम्पश्येत्तावदेवं समाचरेत् ॥ १२॥

nādābhivyaktirityetaccihnaṃ tatsiddhisūcakam ।
yāvadetāni sampaśyettāvadevaṃ samācaret ॥ 12॥

अथवैतत्परित्यज्य स्वात्मशुद्धिं समाचरेत् ।
आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयंप्रभः ॥ १३॥

athavaitatparityajya svātmaśuddhiṃ samācaret ।
ātmā śuddhaḥ sadā nityaḥ sukharūpaḥ svayaṃprabhaḥ ॥ 13॥

अज्ञानान्मलिनो भाति ज्ञानच्छुद्धो भवत्ययम् ।
अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतो यतः ।
स एव सर्वदा शुद्धो नान्यः कर्मरतो हि सः ॥ १४॥

ajñānānmalino bhāti jñānacchuddho bhavatyayam ।
ajñānamalapaṅkaṃ yaḥ kṣālayejjñānato yataḥ ।
sa eva sarvadā śuddho nānyaḥ karmarato hi saḥ ॥ 14॥

इति॥

iti॥

इति पञ्चमः खण्डः ॥ ५॥

iti pañcamaḥ khaṇḍaḥ ॥ 5॥

प्राणायामक्रमं वक्ष्ये सांकृते श्रुणु सादरम् ।
प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः ॥ १॥

prāṇāyāmakramaṃ vakṣye sāṃkṛte śruṇu sādaram ।
prāṇāyāma iti prokto recapūrakakumbhakaiḥ ॥ 1॥

वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः ।
स एष प्रणवः प्रोक्तः प्राणायामस्तु तन्मयः ॥ २॥

varṇatrayātmakāḥ proktā recapūrakakumbhakāḥ ।
sa eṣa praṇavaḥ proktaḥ prāṇāyāmastu tanmayaḥ ॥ 2॥

इडया वायुमाकृष्य पूरयित्वोदरे स्थितम् ।
शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् ॥ ३॥

iḍayā vāyumākṛṣya pūrayitvodare sthitam ।
śanaiḥ ṣoḍaśabhirmātrairakāraṃ tatra saṃsmaret ॥ 3॥

पूरितं धारयेत्पश्चाच्चतुःषष्ट्या तु मात्रया ।
उकारमूर्तिमन्त्रापि संस्मरन्प्रणवं जपेत् ॥ ४॥

pūritaṃ dhārayetpaścāccatuḥṣaṣṭyā tu mātrayā ।
ukāramūrtimantrāpi saṃsmaranpraṇavaṃ japet ॥ 4॥

यावद्वा शक्यते तावद्धारयेज्जपतत्परः ।
पूरितं रेचयेत्पश्चान्मकारेणानिलं बुधः ॥ ५॥

yāvadvā śakyate tāvaddhārayejjapatatparaḥ ।
pūritaṃ recayetpaścānmakāreṇānilaṃ budhaḥ ॥ 5॥

शनैः पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः ।
प्राणायामो भवेदेवं ततश्चैवं समभ्यसेत् ॥ ६॥

śanaiḥ piṅgalayā tatra dvātriṃśanmātrayā punaḥ ।
prāṇāyāmo bhavedevaṃ tataścaivaṃ samabhyaset ॥ 6॥

पुनः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा ।
अकारमूर्तिमत्रापि स्मरेदेकाग्रमानसः ॥ ७॥

punaḥ piṅgalayāpūrya mātraiḥ ṣoḍaśabhistathā ।
akāramūrtimatrāpi smaredekāgramānasaḥ ॥ 7॥

धारयेत्पूरितं विद्वान्प्रणवं संजपन्वशी ।
उकारमूर्तिं स ध्यायंश्चतुःषष्ट्या तु मात्रया ॥ ८॥

dhārayetpūritaṃ vidvānpraṇavaṃ saṃjapanvaśī ।
ukāramūrtiṃ sa dhyāyaṃścatuḥṣaṣṭyā tu mātrayā ॥ 8॥

मकारं तु स्मरन्पश्चाद्रेचयेदिडयानिलम् ।
एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान् ॥ ९॥

makāraṃ tu smaranpaścādrecayediḍayānilam ।
evameva punaḥ kuryādiḍayāpūrya buddhimān ॥ 9॥

एवं समभ्यसेन्नित्यं प्राणायामं मुनीश्वर ।
एवमभ्यासतो नित्यं षण्मासाद्यत्नवान्भवेत् ॥ १०॥

evaṃ samabhyasennityaṃ prāṇāyāmaṃ munīśvara ।
evamabhyāsato nityaṃ ṣaṇmāsādyatnavānbhavet ॥ 10॥

वत्सराद्ब्रह्मविद्वान्स्यात्तस्मान्नित्यं समभ्यसेत् ।
योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः ॥ ११॥

vatsarādbrahmavidvānsyāttasmānnityaṃ samabhyaset ।
yogābhyāsarato nityaṃ svadharmanirataśca yaḥ ॥ 11॥

प्राणसंयमनेनैव ज्ञानान्मुक्तो भविष्यति ।
बाह्यादापूरणं वायोःरुदरे पूरको हि सः ॥ १२॥

prāṇasaṃyamanenaiva jñānānmukto bhaviṣyati ।
bāhyādāpūraṇaṃ vāyoḥrudare pūrako hi saḥ ॥ 12॥

सम्पूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् ।
बहिर्विरचनं वायोरुदराद्रचेकः स्मृतः ॥ १३॥

sampūrṇakumbhavadvāyordhāraṇaṃ kumbhako bhavet ।
bahirviracanaṃ vāyorudarādracekaḥ smṛtaḥ ॥ 13॥

प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः ।
कंपनं मध्यमं विद्यादुत्थानं चोत्तमं विदुः ॥ १४॥

prasvedajanako yastu prāṇāyāmeṣu so'dhamaḥ ।
kaṃpanaṃ madhyamaṃ vidyādutthānaṃ cottamaṃ viduḥ ॥ 14॥

पूर्वंपूर्वं प्रकुर्वीत यावदुत्थानसंभवः ।
संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् ॥ १५॥

pūrvaṃpūrvaṃ prakurvīta yāvadutthānasaṃbhavaḥ ।
saṃbhavatyuttame prājñaḥ prāṇāyāme sukhī bhavet ॥ 15॥

प्राणायमेन चित्तं तु शुद्धं भवति सुव्रत ।
चित्ते शुद्धे शुचिः साक्षात्प्रत्यग्ज्योतिर्व्यवस्थितः ॥ १६॥

prāṇāyamena cittaṃ tu śuddhaṃ bhavati suvrata ।
citte śuddhe śuciḥ sākṣātpratyagjyotirvyavasthitaḥ ॥ 16॥

प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति ।
प्राणायामपरस्यास्य पुरुषस्य महात्मनः ॥ १७॥

prāṇaścittena saṃyuktaḥ paramātmani tiṣṭhati ।
prāṇāyāmaparasyāsya puruṣasya mahātmanaḥ ॥ 17॥

देहश्चोत्तिष्ठते तेन किंचिज्ज्ञानाद्विमुक्तता ।
रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत् ॥ १८॥

dehaścottiṣṭhate tena kiṃcijjñānādvimuktatā ।
recakaṃ pūrakaṃ muktvā kumbhakaṃ nityamabhyaset ॥ 18॥

सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ।
मनोजवत्वमाप्नोति पलितादि च नश्यति ॥ १९॥

sarvapāpavinirmuktaḥ samyagjñānamavāpnuyāt ।
manojavatvamāpnoti palitādi ca naśyati ॥ 19॥

प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् ।
तस्मात्सर्वप्रयत्नेन प्राणायामान्समभ्यसेत् ॥ २०॥

prāṇāyāmaikaniṣṭhasya na kiṃcidapi durlabham ।
tasmātsarvaprayatnena prāṇāyāmānsamabhyaset ॥ 20॥

विनियोगान्प्रवक्ष्यामि प्राणायामस्य सुव्रत ।
सन्ध्ययोर्ब्राह्मकालेऽपि मध्याह्ने वाथवा सदा ॥ २१॥

viniyogānpravakṣyāmi prāṇāyāmasya suvrata ।
sandhyayorbrāhmakāle'pi madhyāhne vāthavā sadā ॥ 21॥

बाह्यं प्राणं समाकृष्य पूरयित्वोदरेण च ।
नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारयेत् ॥ २२॥

bāhyaṃ prāṇaṃ samākṛṣya pūrayitvodareṇa ca ।
nāsāgre nābhimadhye ca pādāṅguṣṭhe ca dhārayet ॥ 22॥

सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः ।
नासाग्रधारणाद्वापि जितो भवति सुव्रत ॥ २३॥

sarvarogavinirmukto jīvedvarṣaśataṃ naraḥ ।
nāsāgradhāraṇādvāpi jito bhavati suvrata ॥ 23॥

सर्वरोगनिवृत्तिः स्यान्नाभिमध्ये तु धारणात् ।
शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात् ॥ २४॥

sarvaroganivṛttiḥ syānnābhimadhye tu dhāraṇāt ।
śarīralaghutā vipra pādāṅguṣṭhanirodhanāt ॥ 24॥

जिह्वया वायुमाकृष्य यः पिबेत्सततं नरः ।
श्रमदाहविनिर्मुक्तो योगी नीरोगतामियात् ॥ २५॥

jihvayā vāyumākṛṣya yaḥ pibetsatataṃ naraḥ ।
śramadāhavinirmukto yogī nīrogatāmiyāt ॥ 25॥

जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् ।
पिबेदमृतमव्यग्रं सकलं सुखमाप्नुयात् ॥ २६॥

jihvayā vāyumākṛṣya jihvāmūle nirodhayet ।
pibedamṛtamavyagraṃ sakalaṃ sukhamāpnuyāt ॥ 26॥

इडया वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् ।
यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः ॥ २७॥

iḍayā vāyumākṛṣya bhruvormadhye nirodhayet ।
yaḥ pibedamṛtaṃ śuddhaṃ vyādhibhirmucyate hi saḥ ॥ 27॥

इडया वेदतत्त्वज्ञस्तथा पिङ्गलयैव च ।
नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः ॥ २८॥

iḍayā vedatattvajñastathā piṅgalayaiva ca ।
nābhau nirodhayettena vyādhibhirmucyate naraḥ ॥ 28॥

मासमात्रं त्रिसन्ध्यायां जिह्वयारोप्य मारुतम् ।
अमृतं च पिबेन्नाभौ मन्दंमन्दं निरोधयेत् ॥ २९॥

māsamātraṃ trisandhyāyāṃ jihvayāropya mārutam ।
amṛtaṃ ca pibennābhau mandaṃmandaṃ nirodhayet ॥ 29॥

वातजाः पित्तजा दोषा नश्यन्त्येव न संशयः ।
नासाभ्यां वायुमाकृष्य नेत्रद्वन्द्वे निरोधयेत् ॥ ३०॥

vātajāḥ pittajā doṣā naśyantyeva na saṃśayaḥ ।
nāsābhyāṃ vāyumākṛṣya netradvandve nirodhayet ॥ 30॥

नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात् ।
तथा वायुं समारोप्य धारयेच्छिरसि स्थितम् ॥ ३१॥

netrarogā vinaśyanti tathā śrotranirodhanāt ।
tathā vāyuṃ samāropya dhārayecchirasi sthitam ॥ 31॥

शिरोरोगा विनश्यन्ति सत्यमुक्तं हि सांकृते ।
स्वस्तिकासनमास्थाय समाहितमनास्तथा ॥ ३२॥

śirorogā vinaśyanti satyamuktaṃ hi sāṃkṛte ।
svastikāsanamāsthāya samāhitamanāstathā ॥ 32॥

अपानमूर्ध्वमुत्थाप्य प्रणवेन शनैः शनैः ।
हस्ताभ्यां धारयेत्सम्यक्कर्णादिकरणानि च ॥ ३३॥

apānamūrdhvamutthāpya praṇavena śanaiḥ śanaiḥ ।
hastābhyāṃ dhārayetsamyakkarṇādikaraṇāni ca ॥ 33॥

अङ्गुष्ठाभ्यां मुने श्रोत्रे तर्जनीभ्यां तु चक्षुषी ।
नासापुटवधानाभ्यां प्रच्छाद्य करणानि वै ॥ ३४॥

aṅguṣṭhābhyāṃ mune śrotre tarjanībhyāṃ tu cakṣuṣī ।
nāsāpuṭavadhānābhyāṃ pracchādya karaṇāni vai ॥ 34॥

आनन्दाविर्भवो यावत्तावन्मूर्धनि धारणात् ।
प्राणः प्रयात्यनेनैव ब्रह्मरन्ध्रं महामुने ॥ ३५॥

ānandāvirbhavo yāvattāvanmūrdhani dhāraṇāt ।
prāṇaḥ prayātyanenaiva brahmarandhraṃ mahāmune ॥ 35॥

ब्रह्मरन्ध्रं गते वायौ नादश्चोत्पद्यतेऽनघ ।
शङ्खध्वनिनिभश्चादौ मध्ये मेघध्वनिर्यथा ॥ ३६॥

brahmarandhraṃ gate vāyau nādaścotpadyate'nagha ।
śaṅkhadhvaninibhaścādau madhye meghadhvaniryathā ॥ 36॥

शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा ।
पश्चात्प्रीतो महाप्राज्ञः साक्षादात्मोन्मुखो भवेत् ॥ ३७॥

śiromadhyagate vāyau giriprasravaṇaṃ yathā ।
paścātprīto mahāprājñaḥ sākṣādātmonmukho bhavet ॥ 37॥

पुनस्तज्ज्ञाननिष्पत्तिर्योगात्संसारनिह्नुतिः ।
दक्षिणोत्तरगुल्फेन सीविनीं पीडयेत्स्थिरम् ॥ ३८॥

punastajjñānaniṣpattiryogātsaṃsāranihnutiḥ ।
dakṣiṇottaragulphena sīvinīṃ pīḍayetsthiram ॥ 38॥

सव्येतरेण गुल्फेन पीडयेद्बुद्धिमान्नरः ।
जान्वोरधः स्थितां सन्धिं स्मृत्वा देवं त्रियम्बकम् ॥ ३९॥

savyetareṇa gulphena pīḍayedbuddhimānnaraḥ ।
jānvoradhaḥ sthitāṃ sandhiṃ smṛtvā devaṃ triyambakam ॥ 39॥

विनायकं च संस्मृत्य तथा वागीश्वरीं पुनः ।
लिङ्गनालात्समाकृष्य वायुमप्यग्रतो मुने ॥ ४०॥

vināyakaṃ ca saṃsmṛtya tathā vāgīśvarīṃ punaḥ ।
liṅganālātsamākṛṣya vāyumapyagrato mune ॥ 40॥

प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् ।
मूलाधारस्य विप्रेन्द्र मध्ये तं तु निरोधयेत् ॥ ४१॥

praṇavena niyuktena binduyuktena buddhimān ।
mūlādhārasya viprendra madhye taṃ tu nirodhayet ॥ 41॥

निरुध्य वायुना दीप्तो वह्निरूहति कुण्डलीम् ।
पुनः सुषुम्नया वायुर्वह्निना सह गच्छति ॥ ४२॥

nirudhya vāyunā dīpto vahnirūhati kuṇḍalīm ।
punaḥ suṣumnayā vāyurvahninā saha gacchati ॥ 42॥

एवमभ्यासतस्तस्य जितो वायुर्भवेद्भृशम् ।
प्रस्वेदः प्रथमः पश्चात्कम्पनं मुनिपुङ्गव ॥ ४३॥

evamabhyāsatastasya jito vāyurbhavedbhṛśam ।
prasvedaḥ prathamaḥ paścātkampanaṃ munipuṅgava ॥ 43॥

उत्थानं च शरीरस्य चिह्नमेतज्जितेऽनले ।
एवमभ्यासतस्तस्य मूलरोगो विनश्यति ॥ ४४॥

utthānaṃ ca śarīrasya cihnametajjite'nale ।
evamabhyāsatastasya mūlarogo vinaśyati ॥ 44॥

भगन्दरं च नष्टं स्यात्सर्वरोगाश्च सांकृते ।
पातकानि विनश्यन्ति क्षुद्राणि च महान्ति च ॥ ४५॥

bhagandaraṃ ca naṣṭaṃ syātsarvarogāśca sāṃkṛte ।
pātakāni vinaśyanti kṣudrāṇi ca mahānti ca ॥ 45॥

नष्टे पापे विशुद्धं स्याच्चित्तदर्पणमद्भुतम् ।
पुनर्ब्रह्मादिभोगेभ्यो वैराग्यं जयते हृदि ॥ ४६॥

naṣṭe pāpe viśuddhaṃ syāccittadarpaṇamadbhutam ।
punarbrahmādibhogebhyo vairāgyaṃ jayate hṛdi ॥ 46॥

विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम् ।
तेन पापापहानिः स्याज्ज्ञात्वा देवं सदाशिवम् ॥ ४७॥

viraktasya tu saṃsārājjñānaṃ kaivalyasādhanam ।
tena pāpāpahāniḥ syājjñātvā devaṃ sadāśivam ॥ 47॥

ज्ञानामृतरसो येन सकृदास्वादितो भवेत् ।
स सर्वकार्यमुत्सृज्य तत्रैव परिधावति ॥ ४८॥

jñānāmṛtaraso yena sakṛdāsvādito bhavet ।
sa sarvakāryamutsṛjya tatraiva paridhāvati ॥ 48॥

ज्ञानस्वरूपमेवाहुर्जगदेतद्विलक्षणम् ।
अर्थस्वरूपमज्ञानात्पश्यन्त्यन्ये कुदृष्टयः ॥ ४९॥

jñānasvarūpamevāhurjagadetadvilakṣaṇam ।
arthasvarūpamajñānātpaśyantyanye kudṛṣṭayaḥ ॥ 49॥

आत्मस्वरूपविज्ञानादज्ञानस्य परिक्षयः ।
क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः ॥ ५०॥

ātmasvarūpavijñānādajñānasya parikṣayaḥ ।
kṣīṇe'jñāne mahāprājña rāgādīnāṃ parikṣayaḥ ॥ 50॥

रागाद्यसंभवे प्राज्ञ पुण्यपापविमर्दनम् ।
तयोर्नाशे शरीरेण न पुनः सम्प्रयुज्यते ॥ ५१॥

rāgādyasaṃbhave prājña puṇyapāpavimardanam ।
tayornāśe śarīreṇa na punaḥ samprayujyate ॥ 51॥

इति॥

iti॥

इति षष्ठः खण्डः ॥ ६॥

iti ṣaṣṭhaḥ khaṇḍaḥ ॥ 6॥

अथातः सम्प्रवक्ष्यामि प्रत्याहारं महामुने ।
इन्द्रियाणां विचरतां विषयेषु स्वभावतः ॥ १॥

athātaḥ sampravakṣyāmi pratyāhāraṃ mahāmune ।
indriyāṇāṃ vicaratāṃ viṣayeṣu svabhāvataḥ ॥ 1॥

बलादाहरणां तेषां प्रत्याहारः स उच्यते ।
यत्पश्यति तु तत्सर्वं ब्रह्म पश्यन्समाहितः ॥ २॥

balādāharaṇāṃ teṣāṃ pratyāhāraḥ sa ucyate ।
yatpaśyati tu tatsarvaṃ brahma paśyansamāhitaḥ ॥ 2॥

प्रत्याहारो भवेदेष ब्रह्मविद्भिः पुरोदितः ।
यद्यच्छुद्धमशुद्धं वा करोत्यामरणान्तिकम् ॥ ३॥

pratyāhāro bhavedeṣa brahmavidbhiḥ puroditaḥ ।
yadyacchuddhamaśuddhaṃ vā karotyāmaraṇāntikam ॥ 3॥

तत्सर्वं ब्रह्मणे कुर्यात्प्रत्याहारः स उच्यते ।
अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः ॥ ४॥

tatsarvaṃ brahmaṇe kuryātpratyāhāraḥ sa ucyate ।
athavā nityakarmāṇi brahmārādhanabuddhitaḥ ॥ 4॥

काम्यानि च तथा कुर्यात्प्रत्याहारः स उच्यते ।
अथवा वायुमाकृष्य स्थानात्स्थानं निरोधयेत् ॥ ५॥

kāmyāni ca tathā kuryātpratyāhāraḥ sa ucyate ।
athavā vāyumākṛṣya sthānātsthānaṃ nirodhayet ॥ 5॥

दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम् ।
उरोदेशात्समाकृष्य नाभिदेशे निरोधयेत् ॥ ६॥

dantamūlāttathā kaṇṭhe kaṇṭhādurasi mārutam ।
urodeśātsamākṛṣya nābhideśe nirodhayet ॥ 6॥

नाभिदेशात्समाकृष्य कुण्डल्यां तु निरोधयेत् ।
कुण्डलीदेशतो विद्वान्मूलाधारे निरोधयेत् ॥ ७॥

nābhideśātsamākṛṣya kuṇḍalyāṃ tu nirodhayet ।
kuṇḍalīdeśato vidvānmūlādhāre nirodhayet ॥ 7॥

अथापानात्कटिद्वन्द्वे तथोरौ च सुमध्यमे ।
तस्माज्जानुद्वये जङ्घे पादाङ्गुष्ठे निरोधयेत् ॥ ८॥

athāpānātkaṭidvandve tathorau ca sumadhyame ।
tasmājjānudvaye jaṅghe pādāṅguṣṭhe nirodhayet ॥ 8॥

प्रत्याहारोऽयमुक्तस्तु प्रत्याहारस्मरैः पुरा ।
एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ॥ ९॥

pratyāhāro'yamuktastu pratyāhārasmaraiḥ purā ।
evamabhyāsayuktasya puruṣasya mahātmanaḥ ॥ 9॥

सर्वपापानि नश्यन्ति भवरोगश्च सुव्रत ।
नासाभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः ॥ १०॥

sarvapāpāni naśyanti bhavarogaśca suvrata ।
nāsābhyāṃ vāyumākṛṣya niścalaḥ svastikāsanaḥ ॥ 10॥

पूरयेदनिलं विद्वानापादतलमस्तकम् ।
पश्चात्पादद्वये तद्वन्मूलाधरे तथैव च ॥ ११॥

pūrayedanilaṃ vidvānāpādatalamastakam ।
paścātpādadvaye tadvanmūlādhare tathaiva ca ॥ 11॥

नाभिकन्दे च हृन्मध्ये कण्ठमूले च तालुके ।
भ्रुवोर्मध्ये ललाटे च तथा मूर्धनि धारयेत् ॥ १२॥

nābhikande ca hṛnmadhye kaṇṭhamūle ca tāluke ।
bhruvormadhye lalāṭe ca tathā mūrdhani dhārayet ॥ 12॥

देहे स्वात्ममतिं विद्वान्समाकृष्य समाहितः ।
आत्मनात्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत् ॥ १३॥

dehe svātmamatiṃ vidvānsamākṛṣya samāhitaḥ ।
ātmanātmani nirdvandve nirvikalpe nirodhayet ॥ 13॥

प्रत्याहारः समाख्यातः साक्षाद्वेदान्तवेदिभिः ।
एवमभ्यसतस्तस्य न किंचिदपि दुर्लभम् ॥ १४॥

pratyāhāraḥ samākhyātaḥ sākṣādvedāntavedibhiḥ ।
evamabhyasatastasya na kiṃcidapi durlabham ॥ 14॥

इति॥

iti॥

इति सप्तमः खण्डः ॥ ७॥

iti saptamaḥ khaṇḍaḥ ॥ 7॥

अथातः सम्प्रवक्ष्यामि धारणाः पञ्च सुव्रत ।
देहमध्यगते व्योम्नि बाह्याकाशं तु धारयेत् ॥ १॥

athātaḥ sampravakṣyāmi dhāraṇāḥ pañca suvrata ।
dehamadhyagate vyomni bāhyākāśaṃ tu dhārayet ॥ 1॥

प्राणे बाह्यानिलं तद्वज्ज्वलने चाग्निमौदरे ।
तोयं तोयांशके भूमिं भूमिभागे महामुने ॥ २॥

prāṇe bāhyānilaṃ tadvajjvalane cāgnimaudare ।
toyaṃ toyāṃśake bhūmiṃ bhūmibhāge mahāmune ॥ 2॥

हयवरलकाराख्यं मन्त्रमुच्चारयेत्क्रमात् ।
धारणैषा परा प्रोक्ता सर्वपापविशोधिनी ॥ ३॥

hayavaralakārākhyaṃ mantramuccārayetkramāt ।
dhāraṇaiṣā parā proktā sarvapāpaviśodhinī ॥ 3॥

जान्वन्तं पृथिवी ह्यंशो ह्यपां पय्वन्तमुच्यते ।
हृदयांशस्तथाग्नंशो भ्रूमध्यान्तोऽनिलांशकः ॥ ४॥

jānvantaṃ pṛthivī hyaṃśo hyapāṃ payvantamucyate ।
hṛdayāṃśastathāgnaṃśo bhrūmadhyānto'nilāṃśakaḥ ॥ 4॥

आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः ।
ब्रह्माणं पृथिवीभागे विष्णुं तोयांशके तथा ॥ ५॥

ākāśāṃśastathā prājña mūrdhāṃśaḥ parikīrtitaḥ ।
brahmāṇaṃ pṛthivībhāge viṣṇuṃ toyāṃśake tathā ॥ 5॥

अग्न्यंशे चे महेशानमीश्वरं चानिलांशके ।
आकाशांशे महाप्राज्ञ धारयेत्तु सदाशिवम् ॥ ६॥

agnyaṃśe ce maheśānamīśvaraṃ cānilāṃśake ।
ākāśāṃśe mahāprājña dhārayettu sadāśivam ॥ 6॥

अथवा तव वक्ष्यामि धारणां मुनिपुङ्गव ।
पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् ॥ ७॥

athavā tava vakṣyāmi dhāraṇāṃ munipuṅgava ।
puruṣe sarvaśāstāraṃ bodhānandamayaṃ śivam ॥ 7॥

धारयेद्बुद्धिमान्नित्यं सर्वपापविशुद्धये ।
ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे ॥ ८॥

dhārayedbuddhimānnityaṃ sarvapāpaviśuddhaye ।
brahmādikāryarūpāṇi sve sve saṃhṛtya kāraṇe ॥ 8॥

सर्वकारणमव्यक्तमनिरूप्यमचेतनम् ।
साक्षादात्मनि सम्पूर्णे धारयेत्प्रणवेन तु ।
इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत् ॥ ९॥

sarvakāraṇamavyaktamanirūpyamacetanam ।
sākṣādātmani sampūrṇe dhārayetpraṇavena tu ।
indriyāṇi samāhṛtya manasātmani yojayet ॥ 9॥

इति॥

iti॥

इत्यष्टमः खण्डः ॥ ८॥

ityaṣṭamaḥ khaṇḍaḥ ॥ 8॥

अथातः सम्प्रवक्ष्यामि ध्यानं संसारनाशनम् ।
ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् ॥ १॥

athātaḥ sampravakṣyāmi dhyānaṃ saṃsāranāśanam ।
ṛtaṃ satyaṃ paraṃ brahma sarvasaṃsārabheṣajam ॥ 1॥

ऊर्ध्वरेतं विश्वरूपं विरूपाक्षं महेश्वरम् ।
सोऽहमित्यादरेणैव ध्यायेदोगीश्वरेश्वरम् ॥ २॥

ūrdhvaretaṃ viśvarūpaṃ virūpākṣaṃ maheśvaram ।
so'hamityādareṇaiva dhyāyedogīśvareśvaram ॥ 2॥

अथवा सत्यमीशानं ज्ञानमानन्दमद्वयम् ।
अत्यर्थमचलं नित्यमादिमध्यान्तवर्जितम् ॥ ३॥

athavā satyamīśānaṃ jñānamānandamadvayam ।
atyarthamacalaṃ nityamādimadhyāntavarjitam ॥ 3॥

तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् ।
न रसं न च गन्धाख्यमप्रमेयमनूपमम् ॥ ४॥

tathā sthūlamanākāśamasaṃspṛśyamacākṣuṣam ।
na rasaṃ na ca gandhākhyamaprameyamanūpamam ॥ 4॥

आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत ।
अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये ॥ ५॥

ātmānaṃ saccidānandamanantaṃ brahma suvrata ।
ahamasmītyabhidhyāyeddhyeyātītaṃ vimuktaye ॥ 5॥

एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ।
क्रमाद्वेदान्तविज्ञानं विजायेत न संशयः ॥ ६॥

evamabhyāsayuktasya puruṣasya mahātmanaḥ ।
kramādvedāntavijñānaṃ vijāyeta na saṃśayaḥ ॥ 6॥

इति॥

iti॥

इति नवमः खण्डः ॥ ९॥

iti navamaḥ khaṇḍaḥ ॥ 9॥

अथातः सम्प्रवक्ष्यामि समाधिं भवनाशनम् ।
समाधिः संविदुत्पत्तिः परजीवैकतां प्रति ॥ १॥

athātaḥ sampravakṣyāmi samādhiṃ bhavanāśanam ।
samādhiḥ saṃvidutpattiḥ parajīvaikatāṃ prati ॥ 1॥

नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ।
एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः ॥ २॥

nityaḥ sarvagato hyātmā kūṭastho doṣavarjitaḥ ।
ekaḥ sanbhidyate bhrāntyā māyayā na svarūpataḥ ॥ 2॥

तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः ।
यथाकाशो घटाकाशो मठाकाश इतीरितः ॥ ३॥

tasmādadvaitamevāsti na prapañco na saṃsṛtiḥ ।
yathākāśo ghaṭākāśo maṭhākāśa itīritaḥ ॥ 3॥

तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना ।
नाहं देहो न च प्राणो नेन्द्रियाणि मनो नहि ॥ ४॥

tathā bhrāntairdvidhā prokto hyātmā jīveśvarātmanā ।
nāhaṃ deho na ca prāṇo nendriyāṇi mano nahi ॥ 4॥

सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः ।
इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते ॥ ५॥

sadā sākṣisvarūpatvācchiva evāsmi kevalaḥ ।
iti dhīryā muniśreṣṭha sā samādhirihocyate ॥ 5॥

साहं ब्रह्म न संसारी न मत्तोऽन्यः कदाचन ।
यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः ॥ ६॥

sāhaṃ brahma na saṃsārī na matto'nyaḥ kadācana ।
yathā phenataraṅgādi samudrādutthitaṃ punaḥ ॥ 6॥

समुद्रे लीयते तद्वज्जगन्मय्यनुलीयते ।
तस्मान्मनः पृथङ् नास्ति जगन्माया च नास्ति हि ॥ ७॥

samudre līyate tadvajjaganmayyanulīyate ।
tasmānmanaḥ pṛthaṅ nāsti jaganmāyā ca nāsti hi ॥ 7॥

यस्यैवं परमात्मायं प्रत्यग्भूतः प्रकाशितः ।
स तु याति च पुंभावं स्वयं साक्षात्परामृतम् ॥ ८॥

yasyaivaṃ paramātmāyaṃ pratyagbhūtaḥ prakāśitaḥ ।
sa tu yāti ca puṃbhāvaṃ svayaṃ sākṣātparāmṛtam ॥ 8॥

यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।
योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम् ॥ ९॥

yadā manasi caitanyaṃ bhāti sarvatragaṃ sadā ।
yogino'vyavadhānena tadā sampadyate svayam ॥ 9॥

यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति ।
सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते तदा ॥ १०॥

yadā sarvāṇi bhūtāni svātmanyeva hi paśyati ।
sarvabhūteṣu cātmānaṃ brahma sampadyate tadā ॥ 10॥

यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।
एकीभूतः परेणाऽसौ तदा भवति केवलः ॥ ११॥

yadā sarvāṇi bhūtāni samādhistho na paśyati ।
ekībhūtaḥ pareṇā'sau tadā bhavati kevalaḥ ॥ 11॥

यदा पश्यति चात्मानं केवलं परमार्थतः ।
मायामात्रं जगत्कृत्स्नं तदा भवति निर्वृतिः ॥ १२॥

yadā paśyati cātmānaṃ kevalaṃ paramārthataḥ ।
māyāmātraṃ jagatkṛtsnaṃ tadā bhavati nirvṛtiḥ ॥ 12॥

एवमुक्त्वा स भगवान्दत्तात्रेयो महामुनिः ।
सांकृतिः स्वस्वरूपेण सुखमास्तेऽतिनिर्भयः ॥ १३॥

evamuktvā sa bhagavāndattātreyo mahāmuniḥ ।
sāṃkṛtiḥ svasvarūpeṇa sukhamāste'tinirbhayaḥ ॥ 13॥

इति॥

iti॥

इति दशमः खण्डः ॥ १०॥

iti daśamaḥ khaṇḍaḥ ॥ 10॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥

oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca ॥

सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु
धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma
nirākarodanirākaraṇamastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu
dharmāste mayi santu te mayi santu ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ तत्सत् ॥

hariḥ oṃ tatsat ॥

इति श्रीजाबालदर्शनोपनिषत्समाप्ता ॥

iti śrījābāladarśanopaniṣatsamāptā ॥


© 1991-2026 Titi Tudorancea Yoga Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
Contact