Only Dharma. Since 1992
/ Vedanta / Bhagavadgita

श्रीमद्भगवद्गीता

Śrīmad Bhagavad Gītā

संन्यासयोगः

Saṃnyāsayogaḥ

अथ पञ्चमोऽध्यायः । संन्यासयोगः

atha pañcamo'dhyāyaḥ । saṃnyāsayogaḥ

अर्जुन उवाच ।

arjuna uvāca ।

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ५-१॥

saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi ।
yacchreya etayorekaṃ tanme brūhi suniścitam ॥ 5-1॥

श्रीभगवानुवाच ।

śrībhagavānuvāca ।

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ ५-२॥

saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau ।
tayostu karmasaṃnyāsātkarmayogo viśiṣyate ॥ 5-2॥

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ५-३॥

jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati ।
nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate ॥ 5-3॥

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ५-४॥

sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ ।
ekamapyāsthitaḥ samyagubhayorvindate phalam ॥ 5-4॥

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ५-५॥

yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate ।
ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ॥ 5-5॥

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ५-६॥

saṃnyāsastu mahābāho duḥkhamāptumayogataḥ ।
yogayukto munirbrahma nacireṇādhigacchati ॥ 5-6॥

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ५-७॥

yogayukto viśuddhātmā vijitātmā jitendriyaḥ ।
sarvabhūtātmabhūtātmā kurvannapi na lipyate ॥ 5-7॥

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्श‍ृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ५-८॥

naiva kiñcitkaromīti yukto manyeta tattvavit ।
paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan ॥ 5-8॥

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ५-९॥

pralapanvisṛjangṛhṇannunmiṣannimiṣannapi ।
indriyāṇīndriyārtheṣu vartanta iti dhārayan ॥ 5-9॥

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ५-१०॥

brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ ।
lipyate na sa pāpena padmapatramivāmbhasā ॥ 5-10॥

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ५-११॥

kāyena manasā buddhyā kevalairindriyairapi ।
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ॥ 5-11॥

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ ५-१२॥

yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm ।
ayuktaḥ kāmakāreṇa phale sakto nibadhyate ॥ 5-12॥

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ ५-१३॥

sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī ।
navadvāre pure dehī naiva kurvanna kārayan ॥ 5-13॥

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ ५-१४॥

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ ।
na karmaphalasaṃyogaṃ svabhāvastu pravartate ॥ 5-14॥

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ ५-१५॥

nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ ।
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ॥ 5-15॥

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ ५-१६॥

jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ ।
teṣāmādityavajjñānaṃ prakāśayati tatparam ॥ 5-16॥

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ ५-१७॥

tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ ।
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ॥ 5-17॥

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ५-१८॥

vidyāvinayasampanne brāhmaṇe gavi hastini ।
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ॥ 5-18॥

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ ५-१९॥

ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ ।
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ॥ 5-19॥

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ ५-२०॥

na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam ।
sthirabuddhirasammūḍho brahmavid brahmaṇi sthitaḥ ॥ 5-20॥

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ ५-२१॥

bāhyasparśeṣvasaktātmā vindatyātmani yatsukham ।
sa brahmayogayuktātmā sukhamakṣayamaśnute ॥ 5-21॥

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ५-२२॥

ye hi saṃsparśajā bhogā duḥkhayonaya eva te ।
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ॥ 5-22॥

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ ५-२३॥

śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt ।
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ॥ 5-23॥

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ ५-२४॥

yo'ntaḥsukho'ntarārāmastathāntarjyotireva yaḥ ।
sa yogī brahmanirvāṇaṃ brahmabhūto'dhigacchati ॥ 5-24॥

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ ५-२५॥

labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ ।
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ॥ 5-25॥

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ ५-२६॥

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām ।
abhito brahmanirvāṇaṃ vartate viditātmanām ॥ 5-26॥

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ ५-२७॥

sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ ।
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ॥ 5-27॥

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ ५-२८॥

yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ ।
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ॥ 5-28॥

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ५-२९॥

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram ।
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ॥ 5-29॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
संन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५॥

Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
saṃnyāsayogo nāma pañcamo'dhyāyaḥ ॥ 5॥


© 1991-2026 Titi Tudorancea Yoga Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
Contact