Only Dharma. Since 1992
/ Vedanta / Bhagavadgita

श्रीमद्भगवद्गीता

Śrīmad Bhagavad Gītā

विभूतियोगः

Vibhūtiyogaḥ

अथ दशमोऽध्यायः । विभूतियोगः

atha daśamo'dhyāyaḥ । vibhūtiyogaḥ

श्रीभगवानुवाच ।

śrībhagavānuvāca ।

भूय एव महाबाहो श‍ृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०-१॥

bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ ।
yatte'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā ॥ 10-1॥

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ १०-२॥

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ ।
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ ॥ 10-2॥

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ १०-३॥

yo māmajamanādiṃ ca vetti lokamaheśvaram ।
asammūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ॥ 10-3॥

बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ १०-४॥

buddhirjñānamasammohaḥ kṣamā satyaṃ damaḥ śamaḥ ।
sukhaṃ duḥkhaṃ bhavo'bhāvo bhayaṃ cābhayameva ca ॥ 10-4॥

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १०-५॥

ahiṃsā samatā tuṣṭistapo dānaṃ yaśo'yaśaḥ ।
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ॥ 10-5॥

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ १०-६॥

maharṣayaḥ sapta pūrve catvāro manavastathā ।
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ ॥ 10-6॥

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १०-७॥

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ ।
so'vikampena yogena yujyate nātra saṃśayaḥ ॥ 10-7॥

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०-८॥

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate ।
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ॥ 10-8॥

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १०-९॥

maccittā madgataprāṇā bodhayantaḥ parasparam ।
kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca ॥ 10-9॥

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०-१०॥

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam ।
dadāmi buddhiyogaṃ taṃ yena māmupayānti te ॥ 10-10॥

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ १०-११॥

teṣāmevānukampārthamahamajñānajaṃ tamaḥ ।
nāśayāmyātmabhāvastho jñānadīpena bhāsvatā ॥ 10-11॥

अर्जुन उवाच ।

arjuna uvāca ।

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १०-१२॥

paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān ।
puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum ॥ 10-12॥

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १०-१३॥

āhustvāmṛṣayaḥ sarve devarṣirnāradastathā ।
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me ॥ 10-13॥

सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १०-१४॥

sarvametadṛtaṃ manye yanmāṃ vadasi keśava ।
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ॥ 10-14॥

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ १०-१५॥

svayamevātmanātmānaṃ vettha tvaṃ puruṣottama ।
bhūtabhāvana bhūteśa devadeva jagatpate ॥ 10-15॥

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १०-१६॥

vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ ।
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi ॥ 10-16॥

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १०-१७॥

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan ।
keṣu keṣu ca bhāveṣu cintyo'si bhagavanmayā ॥ 10-17॥

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि श‍ृण्वतो नास्ति मेऽमृतम् ॥ १०-१८॥

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana ।
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam ॥ 10-18॥

श्रीभगवानुवाच ।

śrībhagavānuvāca ।

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १०-१९॥

hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ ।
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ॥ 10-19॥

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ १०-२०॥

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ ।
ahamādiśca madhyaṃ ca bhūtānāmanta eva ca ॥ 10-20॥

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ १०-२१॥

ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān ।
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī ॥ 10-21॥

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ १०-२२॥

vedānāṃ sāmavedo'smi devānāmasmi vāsavaḥ ।
indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā ॥ 10-22॥

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ १०-२३॥

rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām ।
vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham ॥ 10-23॥

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ १०-२४॥

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim ।
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ॥ 10-24॥

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ १०-२५॥

maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram ।
yajñānāṃ japayajño'smi sthāvarāṇāṃ himālayaḥ ॥ 10-25॥

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ १०-२६॥

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ ।
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ ॥ 10-26॥

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ १०-२७॥

uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam ।
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam ॥ 10-27॥

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ १०-२८॥

āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk ।
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ॥ 10-28॥

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ १०-२९॥

anantaścāsmi nāgānāṃ varuṇo yādasāmaham ।
pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham ॥ 10-29॥

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ १०-३०॥

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham ।
mṛgāṇāṃ ca mṛgendro'haṃ vainateyaśca pakṣiṇām ॥ 10-30॥

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ १०-३१॥

pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham ।
jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī ॥ 10-31॥

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०-३२॥

sargāṇāmādirantaśca madhyaṃ caivāhamarjuna ।
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ॥ 10-32॥

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १०-३३॥

akṣarāṇāmakāro'smi dvandvaḥ sāmāsikasya ca ।
ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ ॥ 10-33॥

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १०-३४॥

mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām ।
kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā ॥ 10-34॥

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ १०-३५॥

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham ।
māsānāṃ mārgaśīrṣo'hamṛtūnāṃ kusumākaraḥ ॥ 10-35॥

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १०-३६॥

dyūtaṃ chalayatāmasmi tejastejasvināmaham ।
jayo'smi vyavasāyo'smi sattvaṃ sattvavatāmaham ॥ 10-36॥

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १०-३७॥

vṛṣṇīnāṃ vāsudevo'smi pāṇḍavānāṃ dhanañjayaḥ ।
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ॥ 10-37॥

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १०-३८॥

daṇḍo damayatāmasmi nītirasmi jigīṣatām ।
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham ॥ 10-38॥

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ १०-३९॥

yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna ।
na tadasti vinā yatsyānmayā bhūtaṃ carācaram ॥ 10-39॥

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ १०-४०॥

nānto'sti mama divyānāṃ vibhūtīnāṃ parantapa ।
eṣa tūddeśataḥ prokto vibhūtervistaro mayā ॥ 10-40॥

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १०-४१॥

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā ।
tattadevāvagaccha tvaṃ mama tejoṃ'śasambhavam ॥ 10-41॥

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०-४२॥

athavā bahunaitena kiṃ jñātena tavārjuna ।
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ॥ 10-42॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः ॥ १०॥

Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
vibhūtiyogo nāma daśamo'dhyāyaḥ ॥ 10॥


© 1991-2026 Titi Tudorancea Yoga Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
Contact