Only Dharma. Since 1992
/ Vedanta / Upanishads (Sanskrit)

Avyakta Upanishad

Sanskrit Devanagari with Roman transliteration (IAST)

 

॥ अव्यक्तोपनिषत् ॥

॥ avyaktopaniṣat ॥

(अव्यक्तनृसिंहोपनिषत्)
(सामवेदीया)

(avyaktanṛsiṃhopaniṣat)
(sāmavedīyā)

स्वाज्ञानासुरराड्ग्रासस्वज्ञाननरकेसरी ।
प्रतियोगिविनिर्मुक्तं ब्रह्ममात्रं करोतु माम् ॥

svājñānāsurarāḍgrāsasvajñānanarakesarī ।
pratiyogivinirmuktaṃ brahmamātraṃ karotu mām ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं
ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण-
मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho
balamindriyāṇi ca ॥ sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ
brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇa-
mastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste
mayi santu te mayi santu ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥

(सृष्टेः पुरा निर्विशेषब्रह्मस्थितिः)

(sṛṣṭeḥ purā nirviśeṣabrahmasthitiḥ)

हरिः ॐ । पुरा किलेदं न किञ्चन्नासीन्न द्यौर्नान्तरिक्षं
न पृथिवी केवलं ज्योतीरूपमनाद्यनन्तमनण्वस्थूलरूपमरूपं
रूपवदविज्ञेयं ज्ञानरूपमानन्दमयमासीत् ।

hariḥ oṃ । purā kiledaṃ na kiñcannāsīnna dyaurnāntarikṣaṃ
na pṛthivī kevalaṃ jyotīrūpamanādyanantamanaṇvasthūlarūpamarūpaṃ
rūpavadavijñeyaṃ jñānarūpamānandamayamāsīt ।

(परमेष्ठिप्रादुभविः)

(parameṣṭhiprādubhaviḥ)

तदनन्यत्तद्द्वेधाभूद्धरितमेकं रक्तमपरम् ।
तत्र यद्रक्तं तत्पुंसो रूपमभूत् । यद्धरितं तन्मायायाः ।
तौ समगच्छतः । तयोर्वीर्यमेवमनन्दत् । तदवर्धत ।
तदण्डमभूधैमम् । तत्परिणममानमभूत् । ततः
परमेष्ठी व्यजायत ।

tadananyattaddvedhābhūddharitamekaṃ raktamaparam ।
tatra yadraktaṃ tatpuṃso rūpamabhūt । yaddharitaṃ tanmāyāyāḥ ।
tau samagacchataḥ । tayorvīryamevamanandat । tadavardhata ।
tadaṇḍamabhūdhaimam । tatpariṇamamānamabhūt । tataḥ
parameṣṭhī vyajāyata ।

(परमेष्ठिनः स्वकृत्यजिज्ञासा)

(parameṣṭhinaḥ svakṛtyajijñāsā)

सोऽभिजिज्ञासत किं मे कुलं किं मे
कृत्यमिति । तं ह वागदृश्यमानाभ्युवाच भोभो प्रजापते
त्वमव्यक्तादुत्पन्नोऽसि व्यक्तं ते कृत्यमिति । किमव्यक्तं
यस्मादहमासिषम् । किं तद्व्यक्तं यन्मे कृत्यमिति ।
साब्रवीदविज्ञेयं हि तत्सौम्य तेजः । यदविज्ञेयं तदव्यक्तम् ।
तच्चेज्जिज्ञाससि मावगच्छेति । स होवाच कैषा त्वं
ब्रह्मवाग्यदसि शंसात्मानमिति । सा त्वब्रवीत्तपसा मां
विजिज्ञासस्वेति । स ह सहस्रं समा ब्रह्मचर्यमध्युवासाध्युवास ॥ १॥

so'bhijijñāsata kiṃ me kulaṃ kiṃ me
kṛtyamiti । taṃ ha vāgadṛśyamānābhyuvāca bhobho prajāpate
tvamavyaktādutpanno'si vyaktaṃ te kṛtyamiti । kimavyaktaṃ
yasmādahamāsiṣam । kiṃ tadvyaktaṃ yanme kṛtyamiti ।
sābravīdavijñeyaṃ hi tatsaumya tejaḥ । yadavijñeyaṃ tadavyaktam ।
taccejjijñāsasi māvagaccheti । sa hovāca kaiṣā tvaṃ
brahmavāgyadasi śaṃsātmānamiti । sā tvabravīttapasā māṃ
vijijñāsasveti । sa ha sahasraṃ samā brahmacaryamadhyuvāsādhyuvāsa ॥ 1॥

द्वितीयः खण्डः

dvitīyaḥ khaṇḍaḥ

(परमेष्ठिनः आनुष्ठुभीविद्यादर्शनम्)

(parameṣṭhinaḥ ānuṣṭhubhīvidyādarśanam)

अथापश्यदृचमानुष्टुभीं परमां विद्यां
यस्याङ्गान्यन्ये मन्त्राः । यत्र ब्रह्म प्रतिष्ठितम् ।
विश्वेदेवाः प्रतिष्ठिताः । यस्तां न वेद किमन्यैर्वेदैः
करिष्यति ।

athāpaśyadṛcamānuṣṭubhīṃ paramāṃ vidyāṃ
yasyāṅgānyanye mantrāḥ । yatra brahma pratiṣṭhitam ।
viśvedevāḥ pratiṣṭhitāḥ । yastāṃ na veda kimanyairvedaiḥ
kariṣyati ।

(आनुष्टुभीविद्यया नृसिंहदर्शनम्)

(ānuṣṭubhīvidyayā nṛsiṃhadarśanam)

तां विदित्वा स च रक्तं जिज्ञासयामास ।
तामेवमनूचानां गायन्नासिष्ट । सहस्रं समा
आद्यन्तनिहितोङ्कारेण पदान्यगायत् । सहस्रं
समास्तथैवाक्षरशः । ततोऽपश्यज्ज्योतिर्मयं
श्रियालिङ्गितं सुपर्णरथं शेषफणाच्छदितमौलिं
मृगमुखं नरवपुषं शशिसूर्यहव्यवाहनात्मकनयनत्रयम् ।

tāṃ viditvā sa ca raktaṃ jijñāsayāmāsa ।
tāmevamanūcānāṃ gāyannāsiṣṭa । sahasraṃ samā
ādyantanihitoṅkāreṇa padānyagāyat । sahasraṃ
samāstathaivākṣaraśaḥ । tato'paśyajjyotirmayaṃ
śriyāliṅgitaṃ suparṇarathaṃ śeṣaphaṇācchaditamauliṃ
mṛgamukhaṃ naravapuṣaṃ śaśisūryahavyavāhanātmakanayanatrayam ।

(नृसिंहस्तुतिः)

(nṛsiṃhastutiḥ)

ततः प्रजापतिः प्रणिपपात नमोनम इति । तथैवर्चाथ तमस्तौत् ।
उग्रमित्याह उग्रः खलु वा एष मृगरूपत्वात् । वीरमित्याह
वीरो वा एष वीर्यवत्त्वात् । महाविष्णुमित्याह महतां वा अयं
महान्रोदसी व्याप्य स्थितः । ज्वलन्तमित्याह ज्वलन्निव खल्वसाववस्थितः ।
सर्वतोमुखमित्याह सर्वतः खल्वयं मुखवान्विश्वरूपत्वात् ।
नृसिंहमित्याह यथा यजुरेवैतत् । भीषणमित्याह भीषा वा
अस्मादादित्य उदेति भीतश्चन्द्रमा भीतो वायुर्वाति भीतोऽग्निर्दहति
भीतः पर्जन्यो वर्षति । भद्रमित्याह भद्रः खल्वयं श्रिया जुष्टः ।
मृत्योर्मृत्युमित्याह मृत्योर्वा अयं मृत्युरमृतत्वं प्रजानामन्नादानाम् ।
नमामीत्याह यथा यजुरेवैतत् । अहमित्याह यथा यजुरेवैतत् ॥ २॥

tataḥ prajāpatiḥ praṇipapāta namonama iti । tathaivarcātha tamastaut ।
ugramityāha ugraḥ khalu vā eṣa mṛgarūpatvāt । vīramityāha
vīro vā eṣa vīryavattvāt । mahāviṣṇumityāha mahatāṃ vā ayaṃ
mahānrodasī vyāpya sthitaḥ । jvalantamityāha jvalanniva khalvasāvavasthitaḥ ।
sarvatomukhamityāha sarvataḥ khalvayaṃ mukhavānviśvarūpatvāt ।
nṛsiṃhamityāha yathā yajurevaitat । bhīṣaṇamityāha bhīṣā vā
asmādāditya udeti bhītaścandramā bhīto vāyurvāti bhīto'gnirdahati
bhītaḥ parjanyo varṣati । bhadramityāha bhadraḥ khalvayaṃ śriyā juṣṭaḥ ।
mṛtyormṛtyumityāha mṛtyorvā ayaṃ mṛtyuramṛtatvaṃ prajānāmannādānām ।
namāmītyāha yathā yajurevaitat । ahamityāha yathā yajurevaitat ॥ 2॥

(उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतेजसम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥)

(ugraṃ vīraṃ mahāviṣṇuṃ jvalantaṃ sarvatejasam ।
nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyumṛtyuṃ namāmyaham ॥)

तृतीय खण्डः

tṛtīya khaṇḍaḥ

(व्यक्तस्वरूपम्)

(vyaktasvarūpam)

अथ भगवांस्तमब्रवीत्प्रजापते प्रीतोऽहं किं तवेप्सितं
तदाशंसेति । स होवाच भगवन्नव्यक्तादुत्पन्नोऽस्मि
व्यक्तं मम कृत्यमिति पुराश्रावि । तत्राव्यक्तं भवानित्यज्ञायि
व्यक्तं मे कथयेति । व्यक्तं वै विश्वं चराचरात्मकम् ।
यद्व्यज्यते तद्व्यक्तस्य व्यक्तत्वमिति ।

atha bhagavāṃstamabravītprajāpate prīto'haṃ kiṃ tavepsitaṃ
tadāśaṃseti । sa hovāca bhagavannavyaktādutpanno'smi
vyaktaṃ mama kṛtyamiti purāśrāvi । tatrāvyaktaṃ bhavānityajñāyi
vyaktaṃ me kathayeti । vyaktaṃ vai viśvaṃ carācarātmakam ।
yadvyajyate tadvyaktasya vyaktatvamiti ।

(जगत्सृष्ट्युपायो ध्यानयज्ञः)
स होवाच न शक्नोमि जगत्स्रष्टुमुपायं मे कथयेति ।
तमुवाच पुरुषः प्रजापते शृणु
सृष्टेरुपायं परमं यं विदित्वा सर्वं ज्ञास्यसि ।
सर्वत्र शक्ष्यसि सर्वं करिष्यसि । मय्यग्नौ स्वात्मानं
हविर्ध्यायेत्तयैवानुष्टुभर्चा । ध्यानयज्ञोऽयमेव ।

(jagatsṛṣṭyupāyo dhyānayajñaḥ)
sa hovāca na śaknomi jagatsraṣṭumupāyaṃ me kathayeti ।
tamuvāca puruṣaḥ prajāpate śṛṇu
sṛṣṭerupāyaṃ paramaṃ yaṃ viditvā sarvaṃ jñāsyasi ।
sarvatra śakṣyasi sarvaṃ kariṣyasi । mayyagnau svātmānaṃ
havirdhyāyettayaivānuṣṭubharcā । dhyānayajño'yameva ।

(ध्यानयज्ञमहिमा)

(dhyānayajñamahimā)

एतद्वै महोपनिषद्देवानां गुह्यम् । न ह वा एतस्य साम्ना
नर्चा न यजुषार्थो नु विद्यते । य इमा वेद स सर्वान्कामानवाप्य
सर्वांल्लोकाञ्जित्वा मामेवाभ्युपैति न स पुनरावर्तते य एवं वेदेति ॥ ३॥

etadvai mahopaniṣaddevānāṃ guhyam । na ha vā etasya sāmnā
narcā na yajuṣārtho nu vidyate । ya imā veda sa sarvānkāmānavāpya
sarvāṃllokāñjitvā māmevābhyupaiti na sa punarāvartate ya evaṃ vedeti ॥ 3॥

चतुर्थः खण्डः

caturthaḥ khaṇḍaḥ

(ध्यानयज्ञेन परमेष्ठिनः सर्वज्ञत्वादिलाभः)

(dhyānayajñena parameṣṭhinaḥ sarvajñatvādilābhaḥ)

प्रजापतिस्तं यज्ञायं वसीयांसमात्मानं मन्यमानो
मनोयज्ञेनेजे । सप्रणवया तयैवर्चा हविर्ध्यात्वात्मान-
मात्मन्यग्नौ जुहुयात् । सर्वमजानात्सर्वत्राशकत्सर्वमकरोत् ।

prajāpatistaṃ yajñāyaṃ vasīyāṃsamātmānaṃ manyamāno
manoyajñeneje । sapraṇavayā tayaivarcā havirdhyātvātmāna-
mātmanyagnau juhuyāt । sarvamajānātsarvatrāśakatsarvamakarot ।

(अन्यस्यापि ध्यानयज्ञेन सर्वज्ञत्वादिलाभः)

(anyasyāpi dhyānayajñena sarvajñatvādilābhaḥ)

य एवं विद्वानिमं ध्यानयज्ञमनुतिष्ठेत्स सर्वज्ञोऽनन्तशक्तिः
सर्वकर्ता भवति । स सर्वांॅल्लोकाञ्जित्वा ब्रह्म परं प्राप्नोति ॥ ४॥

ya evaṃ vidvānimaṃ dhyānayajñamanutiṣṭhetsa sarvajño'nantaśaktiḥ
sarvakartā bhavati । sa sarvāṃllokāñjitvā brahma paraṃ prāpnoti ॥ 4॥

पञ्चमः खण्डः

pañcamaḥ khaṇḍaḥ

(लोकत्रयादिसृष्टिः)

(lokatrayādisṛṣṭiḥ)

अथ प्रजापतिर्लोकान्सिसृक्षमाणस्तस्या एव विद्याया यानि
त्रिंशदक्षराणि तेभ्यस्त्रींॅल्लोकान् । अथ द्वे द्वे अक्षरे
ताभ्यामुभयतो दधार । तस्या एवर्चो द्वात्रिंशद्भिरक्षरै-
स्तान्देवान्निर्ममे । सर्वैरेव स इन्द्रोऽभवत् । तस्मादिन्द्रो
देवानामधिकोऽभवत् । य एवं वेद समानानामधिको भवेत् ।

atha prajāpatirlokānsisṛkṣamāṇastasyā eva vidyāyā yāni
triṃśadakṣarāṇi tebhyastrīṃllokān । atha dve dve akṣare
tābhyāmubhayato dadhāra । tasyā evarco dvātriṃśadbhirakṣarai-
stāndevānnirmame । sarvaireva sa indro'bhavat । tasmādindro
devānāmadhiko'bhavat । ya evaṃ veda samānānāmadhiko bhavet ।

(वसुरुद्रादित्यस्रुष्टिः)

(vasurudrādityasruṣṭiḥ)

तस्या एकादशभिः पादैरेकादश रुद्रान्निर्ममे । तस्या
एकादशभिरेकादशादित्यान्निर्ममे । सर्वैरेव स विष्णुरभवत् ।
तस्माद्विष्णुरादित्यानामधिकोऽभवत् । य एवं वेद समानानामधिको
भवेत् । स चतुर्भिश्चतुर्भिरक्षरैरष्टौ वसूनजनयत् ।
स तस्या आद्यैर्द्वादशभिरक्षरैर्ब्राह्मणमजनयत् ।
दशभिर्दशभिर्विट्क्षत्रे । तस्माद्ब्राह्मणो मुख्यो भवति ।
एवं तन्मुख्यो भवति य एवं वेद ।
तूष्णीं शूद्रमजनयत्तस्माच्छूद्रो निर्विद्योऽभवत् ।

tasyā ekādaśabhiḥ pādairekādaśa rudrānnirmame । tasyā
ekādaśabhirekādaśādityānnirmame । sarvaireva sa viṣṇurabhavat ।
tasmādviṣṇurādityānāmadhiko'bhavat । ya evaṃ veda samānānāmadhiko
bhavet । sa caturbhiścaturbhirakṣarairaṣṭau vasūnajanayat ।
sa tasyā ādyairdvādaśabhirakṣarairbrāhmaṇamajanayat ।
daśabhirdaśabhirviṭkṣatre । tasmādbrāhmaṇo mukhyo bhavati ।
evaṃ tanmukhyo bhavati ya evaṃ veda ।
tūṣṇīṃ śūdramajanayattasmācchūdro nirvidyo'bhavat ।

(अहोरात्रसृष्टिः)

(ahorātrasṛṣṭiḥ)

न वेदं इवा न नक्तमासीदव्यावृतम् ।
स प्रजापतिरानुष्टुभाभ्यामर्धर्चाभ्यामहोरात्रावकल्पयत् ।

na vedaṃ ivā na naktamāsīdavyāvṛtam ।
sa prajāpatirānuṣṭubhābhyāmardharcābhyāmahorātrāvakalpayat ।

(वेदछन्दस्सृष्टिः)

(vedachandassṛṣṭiḥ)

ततो व्यैच्छत् व्येवास्मा उच्छति । अथो तम एवापहते ।
ऋग्वेदमस्या आद्यात्पादादकल्पयत् । यजुर्द्वितीयात् ।
साम तृतीयात् । अथर्वाङ्गिरसश्चतुर्थात् यदष्टाक्षरपदा
तेन गायत्री । यदेकादशपदा तेन त्रिष्टुप् ।
यच्चतुष्पदा तेन जगती यद्द्वात्रिंशदक्षरा तेनानुष्टुप् ।
सा वा एषा सर्वाणि छन्दांसि । य इमां सर्वाणि छन्दांसि वेद ।
सर्वं जगदानुष्टुभ एवोत्पन्नमनुष्टुप्प्रतिष्ठितं
प्रतितिष्ठति यश्चैवं वेद ॥ ५॥

tato vyaicchat vyevāsmā ucchati । atho tama evāpahate ।
ṛgvedamasyā ādyātpādādakalpayat । yajurdvitīyāt ।
sāma tṛtīyāt । atharvāṅgirasaścaturthāt yadaṣṭākṣarapadā
tena gāyatrī । yadekādaśapadā tena triṣṭup ।
yaccatuṣpadā tena jagatī yaddvātriṃśadakṣarā tenānuṣṭup ।
sā vā eṣā sarvāṇi chandāṃsi । ya imāṃ sarvāṇi chandāṃsi veda ।
sarvaṃ jagadānuṣṭubha evotpannamanuṣṭuppratiṣṭhitaṃ
pratitiṣṭhati yaścaivaṃ veda ॥ 5॥

षष्ठः खण्डः

ṣaṣṭhaḥ khaṇḍaḥ

(स्त्रीपुरुषमिथुनसृष्टिः)

(strīpuruṣamithunasṛṣṭiḥ)

अथ यदा प्रजाः सृष्टा न जायन्ते प्रजापतिः कथं
न्विमाः प्रजाः सृजेयमिति चिन्तयन्नुग्रमितीमामृचं
गातुमुपाक्रामत् । ततः प्रथमपादादुग्ररूपो देवः
प्रादुरभूत् एकः श्यामः पुरतो रक्तः पिनाकी स्त्रीपुंसरूपस्तं
विभज्य स्त्रीषु तस्य स्त्रीरूपं पुंसि च पुंरूपं व्यधात् ।
उभाभ्यानंशाभ्यां सर्वमादिष्टः । ततः प्रजाः प्रजायन्ते ।
य एवं वेद प्रजापतेः सोऽपि त्र्यम्बक इमामृचमुद्गाय-
न्नुद्ग्रथितजटाकलापः प्रत्यो अग्ज्योतिष्यात्मन्येव रन्तारमिति ।

atha yadā prajāḥ sṛṣṭā na jāyante prajāpatiḥ kathaṃ
nvimāḥ prajāḥ sṛjeyamiti cintayannugramitīmāmṛcaṃ
gātumupākrāmat । tataḥ prathamapādādugrarūpo devaḥ
prādurabhūt ekaḥ śyāmaḥ purato raktaḥ pinākī strīpuṃsarūpastaṃ
vibhajya strīṣu tasya strīrūpaṃ puṃsi ca puṃrūpaṃ vyadhāt ।
ubhābhyānaṃśābhyāṃ sarvamādiṣṭaḥ । tataḥ prajāḥ prajāyante ।
ya evaṃ veda prajāpateḥ so'pi tryambaka imāmṛcamudgāya-
nnudgrathitajaṭākalāpaḥ pratyo agjyotiṣyātmanyeva rantāramiti ।

(इन्द्राख्यायिका)

(indrākhyāyikā)

इन्द्रो वै किल देवानामनुजावर आसीत् । तं प्रजापतिरब्रवीद्गच्छ
देवानामधिपतिर्भवेति । सोऽगच्छत् । तं देवा ऊचुरनुजावरोऽसि
त्वमस्माकं कुतस्त्वाधिपत्यमिति । स प्रजापतिमभ्येत्योवाचैवं
देवा ऊचुरनुजावरस्य कुतस्तवाधिपत्यमिति । तं प्रजापतिरिन्द्रं
त्रिकलशैरमृतपूर्णैरानुष्टुभाभिमन्त्रितैरभिषिच्य तं
सुदर्शनेन दक्षिणतो ररक्ष पाञ्चजन्येन वामतो द्वयेनैव
सुरक्षितोऽभवत् । रौक्मे फलके सूर्यवर्चसि मन्त्रमानुष्टुभं
विन्यस्य तदस्य कण्ठे प्रत्यमुञ्चत् । ततः सुदुर्निरीक्षोऽभवत् ।
तस्मै विद्यामानुष्टुभीं प्रादात् । ततो देवास्तमाधिपत्यायानुमेनिरे ।
स स्वराडभूत् । य एवं वेद स्वराड् भवेत् । सोऽमन्यत पृथिवीमपि
कथमपां जयेयमिति । स प्रजापतिमुपाधावत् ।
तस्मात्प्रजापतिः कमठाकारमिन्द्रनागभुजगेन्द्राधारं
भद्रासनं प्रादात् । स पृथिवीमभ्यजयत् । ततः स
उभयोर्लोकयोरधिपतिरभूत् । य एवं वेदोभयोर्लोकयोरधिपतिर्भवति ।
स पृथिवीं जयति ।

indro vai kila devānāmanujāvara āsīt । taṃ prajāpatirabravīdgaccha
devānāmadhipatirbhaveti । so'gacchat । taṃ devā ūcuranujāvaro'si
tvamasmākaṃ kutastvādhipatyamiti । sa prajāpatimabhyetyovācaivaṃ
devā ūcuranujāvarasya kutastavādhipatyamiti । taṃ prajāpatirindraṃ
trikalaśairamṛtapūrṇairānuṣṭubhābhimantritairabhiṣicya taṃ
sudarśanena dakṣiṇato rarakṣa pāñcajanyena vāmato dvayenaiva
surakṣito'bhavat । raukme phalake sūryavarcasi mantramānuṣṭubhaṃ
vinyasya tadasya kaṇṭhe pratyamuñcat । tataḥ sudurnirīkṣo'bhavat ।
tasmai vidyāmānuṣṭubhīṃ prādāt । tato devāstamādhipatyāyānumenire ।
sa svarāḍabhūt । ya evaṃ veda svarāḍ bhavet । so'manyata pṛthivīmapi
kathamapāṃ jayeyamiti । sa prajāpatimupādhāvat ।
tasmātprajāpatiḥ kamaṭhākāramindranāgabhujagendrādhāraṃ
bhadrāsanaṃ prādāt । sa pṛthivīmabhyajayat । tataḥ sa
ubhayorlokayoradhipatirabhūt । ya evaṃ vedobhayorlokayoradhipatirbhavati ।
sa pṛthivīṃ jayati ।

(परमात्मप्रतिष्ठासाधनम्)

(paramātmapratiṣṭhāsādhanam)

यो वा अप्रतिष्ठितं शिथिलं भ्रातृवेभ्यो
वसीयान्भवति यश्चैवं वेद यश्चैवं वेद ॥ ६॥

yo vā apratiṣṭhitaṃ śithilaṃ bhrātṛvebhyo
vasīyānbhavati yaścaivaṃ veda yaścaivaṃ veda ॥ 6॥

सप्तमः खण्डः

saptamaḥ khaṇḍaḥ

(एतद्विद्याऽध्ययनफलम्)

(etadvidyā'dhyayanaphalam)

य इमां विद्यामधीते स सर्वान्वेदानधीते । स सर्वैः क्रतुभिर्यजते ।
स सर्वतीर्थेषु स्नाति । स महापातकोपपातकैः प्रमुच्यते । स
ब्रह्मवर्चसं महदाप्नुयात् । आब्रह्मणः पूर्वानाकल्पाऽश्चोत्तरांश्च
वंशान्पुनीते । नैनमपस्मारादयो रोगा आदिधेयुः । सयक्षाः
सप्रेतपिशाचा अप्येनं स्पृष्ट्वा दृष्ट्वा श्रुत्वा वा
पापिनः पुण्यांॅल्लोकानवाप्नुयुः । चिन्तितमात्रादस्य सर्वेऽर्थाः
सिद्ध्येयुः । पितरमिवैनं सर्वे मन्यन्ते । राजानश्चास्यादेशकारिणो
भवन्ति । न चाचार्यव्यतिरिक्तं श्रेयांसं दृष्ट्वा नमस्कुर्यात् ।
न चास्मादुपावरोहेत् । जीवन्मुक्तश्च भवति । देहान्ते तमसः परं
धाम प्राप्नुयात् । यत्र विराण् नृसिंहोऽवभासते तत्र खलूपासते ।
तत्स्वरूपध्यानपरा मुनय आकल्पान्ते तस्मिन्नेवात्मनि लीयन्ते । न च
पुनरावर्तन्ते ।

ya imāṃ vidyāmadhīte sa sarvānvedānadhīte । sa sarvaiḥ kratubhiryajate ।
sa sarvatīrtheṣu snāti । sa mahāpātakopapātakaiḥ pramucyate । sa
brahmavarcasaṃ mahadāpnuyāt । ābrahmaṇaḥ pūrvānākalpā'ścottarāṃśca
vaṃśānpunīte । nainamapasmārādayo rogā ādidheyuḥ । sayakṣāḥ
sapretapiśācā apyenaṃ spṛṣṭvā dṛṣṭvā śrutvā vā
pāpinaḥ puṇyāṃllokānavāpnuyuḥ । cintitamātrādasya sarve'rthāḥ
siddhyeyuḥ । pitaramivainaṃ sarve manyante । rājānaścāsyādeśakāriṇo
bhavanti । na cācāryavyatiriktaṃ śreyāṃsaṃ dṛṣṭvā namaskuryāt ।
na cāsmādupāvarohet । jīvanmuktaśca bhavati । dehānte tamasaḥ paraṃ
dhāma prāpnuyāt । yatra virāṇ nṛsiṃho'vabhāsate tatra khalūpāsate ।
tatsvarūpadhyānaparā munaya ākalpānte tasminnevātmani līyante । na ca
punarāvartante ।

(एतद्विद्यासम्प्रदानविधिः)

(etadvidyāsampradānavidhiḥ)

न चेमां विद्यामश्रद्दधानाय ब्रूयान्नासूयावते
नानूचानाय नाविष्णुभक्ताय नानृतिने नातपसे नादान्ताय
नाशान्ताय नादीक्षिताय नाधर्मशीलाय न हिंसकाय नाब्रह्मचारिण
इत्येषोपनिषत् ॥

na cemāṃ vidyāmaśraddadhānāya brūyānnāsūyāvate
nānūcānāya nāviṣṇubhaktāya nānṛtine nātapase nādāntāya
nāśāntāya nādīkṣitāya nādharmaśīlāya na hiṃsakāya nābrahmacāriṇa
ityeṣopaniṣat ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं
ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण-
मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ तत्सत् ॥

oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho
balamindriyāṇi ca ॥ sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ
brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇa-
mastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste
mayi santu te mayi santu ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
hariḥ oṃ tatsat ॥

इत्यव्यक्तोपनिषत्समाप्ता ॥

ityavyaktopaniṣatsamāptā ॥


© 1991-2026 Titi Tudorancea Yoga Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
Contact